SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ 1 मुक्तावली // 18 // BECAREGAR जाते प्रभाते सैन्यैः सह तत्र मादिकानि च निजायत्तान्यकरा न्तिकमाययौ। तत्राग | भक्त्या निजपितरं तं यवराजमुनि ववन्दे / तत्रावसरे गुरुणा पृष्टः / कोऽसि ? राजा वक्ति स्वामिन् ! तवैव कुपुत्रोऽस्मि, पुनरूचे गुरुः किमुच्यते कुपुत्र इति / ततो राज्ञा प्रबजिते पितरि यथाजातं तदादितः सर्वमप्यावेदितम् / श्रुत्वापि तद् गुरुणा मौनमेवाश्रितम् / राजाऽवक् / हे स्वामिन् ! त्वं धन्योऽसि / त्वं सर्वज्ञतामधिगतोऽसि / यस्त्वमधुना मम मानसीश्चिन्तामशेषामपाकरोः / तव पुण्यादेव सर्वसिद्धिः सेत्स्यतीत्यादिमिष्टस्निग्धवचसा संस्तुत्य नमस्कृत्य च स राजा निजावासमाययो / अथ जाते प्रभाते सेन्यैः सह तत्र गत्वा तस्य दुष्टप्रधानस्य गृहमवरोध्य तदन्तर्भूतलगृहानिजभगिनीमानीतवान् / तस्य गृहे यान्युपकरणान्यासन् तानि सर्वाणि सगृहाणि तदीयग्रामादिकानि च निजायत्तान्यकरोत् / तस्य महानर्थकर्तुश्च शूलिकां दातुमाज्ञप्तम् / तच्छ्रुत्वा दयालुर्यवमुनिर्जीवन्तं तं मोचयामास / अथ यवराजर्षिस्ततो विहृत्य कियद्भिर्दिनैः स्वकीयगुर्वन्तिकमाययौ। तत्रागत्य यवराजर्षिर्विधिवृद् गुरु ववन्दे / गुरुर्वक्ति राजर्षे ! संसारिणो मिलित्वा सुखेन समागतोऽसि / साधुर्वक्ति स्वामिन् ! तवानुकम्पनतः सर्व सिद्धम्, पुनर्गुरुणा पृष्टः राजर्षे / तेभ्य उपदेशः कीदृशो दत्तः / ततो राजर्षिक्ति हे गुरो ! मया मार्गमध्ये गाथात्रयमुपलब्धं तदेवोपदि-: एम् / परमर्थस्तासां क इत्यहं न वेनि / यथाश्रुतं तथोपविष्टम् / तेषान्तु ताभिर्गाथाभिर्महान् लामो जातः / तत्रावसरे गुरुणोक्तम् / / हे राजर्षे ! यदि तादृशेनार्थस्तेषां सिद्धस्तहि यो हि तस्वमुपदिशति, तेन लोकोपकृतिः कथं न स्यात् / अपि तु स्यादेव, / यदुक्तम्-गाथायाम" सिक्खियन मणूसेणं, अवि जारिसतारिस / पेच्छ मुडसिलोगेहि, जीवियं परिरक्खियं // 1 // " अयमस्या आशया-पामरोक्तमपि याद तादृशं शिक्षणीयम् / शिक्षितं हि किमपि पथा न जायते / यस्मात्तादृशशिक्षित-- DSCIES // 18 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy