SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ कोऽप्युपाय इति विचिन्त्यामात्येनोक्तः / हे स्वामिन् ! स साधुः संयमपतितोऽस्ति तं वंदित्वा पृष्ट्वा वा किं स्यात् / त्वं सर्व वृत्तं तदीयं न जानासि अहं तु जानाम्यतस्त्वामेवं कथयामि / एष तु षण्मासाचारित्रभ्रष्टोऽस्ति / असौ महालोभी त्वां कपटजालेन पश्चित्वा राज्यमिदं पुनर्ग्रहीतुमत्रागतोऽस्ति / ततो राजोवाच यदि तस्य राज्यलिप्सा वर्तते, तर्हि सुखेनैव तद् गृह्णातु, मनागपि मे तेन दुःखं न स्यात् / पुराऽप्येतद्राज्यं तदीयमेवाऽऽसीत् / इत्येवंविधां वाचमाकर्ण्य दुष्टेन मन्त्रिणा राज्ञो मनसि साधुविषये तथा महती घृणाकारि, यथा स राजा निजपितरं तं साधुं हन्तुमियेष / तत्रावसरे दुष्टधीः स मन्त्री नितरां तुतोष / ततः स राजा निशि कृष्णकम्बलमुपरि निधाय खड्गं गृहीत्वा तं साधु निहन्तुं निर्ययो। मार्गे गच्छन् / राजा मनस्येवमवधारितवान् / यद्यसौ ज्ञानी मम मानसीं शङ्कामपनेष्यति तर्हि तं न हनिष्यामि, इति निश्चित्य तत्समीपे कुत्राऽप्यलक्षितस्तस्थौ / इतश्च स्वासने समुपविष्टो यवराजर्षिः प्रथम क्षेत्रस्वामिनोक्ताङ्गाथामपाठीत् / तामाकर्ण्य राजैवमबुध्यत / अहो! साधुर्महाज्ञानवानस्ति, येनाऽमुना ममाऽऽामनं ज्ञातम् / परमेषमेव यथेष मद्भगिन्या विषयेऽप्यपृष्टः सर्वकथयिष्यति ततस्य परिपूर्णज्ञानित्वे निःसंदेहो ममात्मा भविष्यतीत्येवं विचारयन यावदासीत्, तावन्मुनिर्वालकोक्तां मोईरमणविषयिकां द्वितीयाङ्गाथामपठीत / तां श्रुत्वा सर्वथा त्रिकालज्ञानवानयमिति निश्चितवान् राजा / यतो हि-तया गाथया राजैवमबुध्यत यथा-मम भगिन्येतस्मिन्नेव नगरे कुत्रापि गुप्तस्थले तिष्ठतीति परमेष मुनिस्तत्स्थानादिकमपि यदि प्रकटयेत्तर्हि कृतकृत्यतां प्राप्नुया- | मिति चिन्तयन यावदासीद्राजा तावन्मुनिः कुम्भकारपठितां तृतीयाङ्गाथाम्पपाठ तामाकर्ण्य राज्ञा निश्चितम् / अहो ! दुष्टो दीर्घपृष्ठप्रधान एव मत्स्वसारमपजड़े / स एव निजावासे गुप्तस्थितां तामकरोत् महाननों जातः। तदानीमेव प्रकटीभूय गुरोरन्तिकमुपेत्य
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy