SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ धर्मवर्गः१ मुक्तावली कुम्भकारस्य गृहे समागत्य तस्थौ / स च कुम्भकारो नवीनानि मृण्मयानि भाण्डानि निर्मायैकत्र गृहकोणे सश्चितान्यकरोत् तन्मध्ये कस्यचिन्मूषकस्य सञ्चारमालोक्य मृषकप्रतिबोधाय स प्रजापतिः एनाङ्गाथामपाठीत् / यथा सुकुमालग ! भद्दलग!, रत्तिं हिंडणसलिग / भयं ते णस्थि मंमूला, दीहपुट्ठाउ ते भयं // 3 // अयमस्या अर्थः-हे मूषक ! त्वमतीव सुकुमारोऽसि, तथा सरलोऽसि, त्वं रात्रौ सञ्चरणशीलोऽसि, तव मत्तो भीतिः कापि नास्ति, किन्तु दीर्घपृष्ठात्सद्धीतिरस्तीति गाथार्थः / एनामपि गाथां श्रुत्वा तत्क्षणं यवसाधुः शिशिक्षे / अथाऽभ्यासदाया॑य गाथात्रयमेतद्वारंवारमभ्यसन स मुनिस्तत्र निजासने समासीत् / इतश्च पौराः सकलास्तदागमनेन प्रमुमुदिरे / परं दीर्घपृष्ठारव्यमंत्रिणो मनसि महती चिन्ता जाता / तदा तेनैवञ्चिन्तितं असौ मुनि नवानस्ति / यद्येनं राजा निजभगिन्या वृत्तांत प्रक्ष्यति, तसिौ सर्वमेव वृत्तं राजानं कथयिष्यति, ततश्च मदीया सर्व प्रकटीभविष्यति / अतः प्रथममेव राज्ञः समीपे तथा प्रपञ्चो विधातव्यः, यथाऽनेन मुनिना सह राजा न मिलेत, नैनमत्र स्थापयेत्, किन्तु तत्कालमेव मुनि नगरानिष्काशयेत् / इत्थं मनसि विचार्य तत्कालमेव राजान्तिकङ्गतः। तत्र गत्वा राजानं नमस्कृत्य यथोचितस्थाने समुपाविशत् / अथ प्रसङ्गं लात्वा स राजानमेवं व्यजिज्ञपत- हे पृथ्वीनाथ ! यस्ते पिता प्रवजितः स समागतोऽस्ति / राजा वक्ति, तर्हि वर जातम् / अहमपि तत्पार्श्वगमिष्यामि, तस्य विधिना नमस्कार करिष्यामि / मानसिक वृत्तमपि प्रक्ष्यामि / इति राज्ञो वचनं निशम्य पुनरपि प्रधानश्चिन्तासागरे पतितो मनस्येवं दध्यो, नूनमसौ तदन्तिकं यास्यति प्रक्ष्यति च, ततो मे प्रकटिष्यति कपटमतो मया कर्तव्यः SCRIBECEॐ // 17 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy