SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ च द्वितीयपक्षे तु यवनामानं राजानं मारयितुं भो गर्दभनृपते ? जानामि तवाशयमहम् / इति गाथानेकधा तेन पठिता / एषा च गाथा तेन यवमुनिना श्रुता यत्नतः समभ्यस्तीकृता / ततोऽग्रे गच्छता तेन तामेव गाथा पठता कियद्भिर्दिनैर्वसन्तपुरस्य नगरस्य समीपे कस्मिंश्चिच्चत्वरे समागतं / तत्र चाऽनेके चालका मोईदण्डाख्यकीडनं कुर्वन्तो दृष्टाः। यवराजर्षिरपि तत्रैव कियत्कालं तस्थौ / अत्रान्तरे चैको बालको मोईक्रीडनमुत्क्षिप्तवान् दण्डेन / ततस्तत् क्रीडनकमतिदूरे कुत्रापि गर्ने न्यपतत् / ततो बहुधा शोधितेऽपि तत्क्रीडक यदा नामिलत्तदा कश्चन बालक इमां गाथामपठत्इओ गया तओ गया, मग्गिजंतीण दीसइ / अहमेयं विजाणामि, अगडे छूटा अडोलिया // 2 // अस्या अर्थ:-एतन्मोईक्रीडनकमस्मासु पश्यत्सु गतमिति दृष्टम्, परं क गतं कूपे वा गर्ने वा तत्तु त्वया मयापि च नैव दृष्टम् / अतोऽन्यद् गृहीत्वा सर्वैः पुरेव क्रीडितव्यम् / इयर्थिकामेनाङ्गाथामाकर्ण्य सम्यगभ्यस्तत्रान यवमुनिः / इत्थं गाथाद्वयं तेन शिक्षितम् / इतो वसन्तपुरे नगरे यवाख्ये राजनि दीक्षिते सति तत्पुत्रो गर्दभीलो राजाऽभूत् / तत्पुत्री चाऽनुलिका तारुण्यपूर्णा जाता / तां महारूपवती युवतीमालोक्य दीर्घपृष्ठनामा मन्त्री तस्यामनुरागवान बभूव / ततो मन्त्री युक्त्या तामपहृत्य निजसबनि समानीय गुप्तस्थाने स्थापितवान् / गर्दभीलो राजा निजभगिनीमपहृताम्परितो बहुशः शोधयामास, परं कुत्रापि केनापि तस्याः शुद्धिर्नाधिगता / ततस्तस्य राज्ञो मानसे महती चिन्ता समुदपद्यत / इतश्च स यवराजर्षिः पुरप्रवेशं विधाय कस्यचित् 36
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy