________________ ज्ञानमतिदुष्करमस्ति / सुकृतिनामेव तन्मिलति / यज्ज्ञानं जीवान् अपारभवसागरादुद्धरति / प्राणिनां त्रिविधान्यपि दुःखानि नाशयति / तथाऽहिताद्वारयति / हिते च जनान योजयति / किञ्च-यद्योगाद्धीरा इमां त्रिलोकी पदार्थविभूति कराऽऽमलकमिव पश्यन्ति / इति सर्वतः श्रेष्ठ ज्ञानमवश्यमेव लौकिकपारलौकिकशिवलिप्सावद्भिरेष्टव्यम् / समाराधनीयश्च तदेव / तदर्थ सर्वैरपि यतितव्यम् // 9 // यवऋषि ऋण गाथा बोधी भो निवार्यो, इक पदथि चिलातीपुत्र संसार वार्यो। श्रुतथि अभय हाथे रोहिणो चोर नावे, श्रुत भणत सुज्ञानी मासतूसादि थावे // 10 // अन्यच्च-ज्ञानमाहात्म्यमेव दर्शयति यथा-इहैव लोके कश्चन यवनामा ऋषिरासीत् / स च विद्याहीनोऽभूत् / परं साधारणगाथात्रयस्यैव बोधेन समागतां महतीमापदमनीनशत् / किश्च चिलातीपुत्रोऽप्येकमेव पदं सम्यगवबुध्य दुस्तरमपि संसारसागरमेनमतरत् / ज्ञानवलादेव रोहिणीयाभिधो महातस्करोऽपि कृतेऽपि नानोपाये श्रीअभयकुमारग्राह्यो नाऽभूत् / तथा श्रुतज्ञान-भणनादेव मासतुषादयो महाज्ञानवन्तोऽभूवन // 10 // साधारण गाथाबोधोपरि यवराजर्षेः ५-कथानकम्यथा वसन्तपुरनामनगरे यवनामा राजा बभूव / तस्य गमीलाऽभिधानः पुत्र आसीत् / अनुलिकाख्या मञ्जला पुत्री तथा दीर्घपृष्ठनामा मन्त्री तस्यासीत् / अथैकदा समागतं वार्धक्यमालोक्य भवोद्विग्नः पुत्राय राज्यं दत्त्वा