________________ RBSCREELCC-BRECEB3EOS मान्यमासीत् / मोक्षगतस्य भगवतो महावीरस्य सप्तत्यधिकचतुम्शते वर्षेऽतीते विक्रमार्कीयः सम्बत्सरः प्रावर्तत / इत्थमकण्टक राज्य कुर्वन्, महद्भक्ति विदधत् स्वायुः शतं सम्पूर्णीकृत्य स विक्रमी विक्रमो राजा देवलोकगतवान् / इतोऽधिकं तच्चरित्रं विक्रमचरित्रादितो बोध्यं जिज्ञासावद्धिः। अथ धर्मतत्त्वोपरि शालिवाहननृपस्य ४-कथानकम्तथाहि-इहैव दक्षिणमहाराष्ट्रदेशे प्रतिष्ठानाऽभिधानं नगरं वर्तते / तत्र च शालिवाहनाख्यो राजा विलसति / स चैकदा निजनगरसीम्नि वहन्त्याः क्षिप्रानद्यास्तटे विहरन नदीशोभाश्च पश्यन् नितरां जहर्ष / परं तत्रावसरे जलतरङ्गसंयोगादेको महाकायो मीनो नदीतीरमागत्य प्रकटं जहास / तदालोक्य स राजा मनसि क्षोभं कृतवान् / तत्रेदं कारणम्-पल्लोकेऽस्मिन् मत्स्यो नैव हसति / परमसौ जहास / तेन कोऽप्युत्पातोवश्यं भावीति निश्चित्य विमना स राजा निजावासमापनः / ततः सर्वान देवज्ञान नैमित्तिकांश्च समाकार्य तत्कारणं राजा तानपृच्छत् / परं मनःसन्तोषकरमुत्तरं कोऽपि नानक / ततो विषण्णो राजा ज्ञानसागरनामानं जैनमुनिमपृच्छत् / भो मुने ! मामवलोक्य स मीनः कथं जहास? / इत्थं राज्ञा पृष्टो मुनिरवधिज्ञानयोगेन जन्मान्तरीयं तत्सर्वमालोक्य राजानमेवमोचत् / हे राजेन्द्र ! साबधानमनसा तत्कारणमाकर्यताम् / इहैव नगरे पूर्वजन्मनि भवान् निरपत्यः काष्ठभारविक्रेता महारङ्क आसीत् / काष्ठभार वनादानीय विक्रीय च नगरे निजात्मानमपुषत् / एकदा नदीतीरे शिलोपरि सक्तून पयसा (वारिणा ) पिण्डीकुर्वता कोऽपि मासोपवासी क्षमाश्रमणः पारणार्थ गोचर्यै समागच्छंस्त्वयाऽऽलोकितः / तत्रावसरे श्रद्धया तमाहूय मुदा तत्सक्तपिण्डं तस्मै दत्तवान् तेन सुपात्रदानप्रभावत इह RECORRESAXI