________________ मुक्तावली // 11 // स्थाने स्थाने दीपावलीश्च कारितवान् / तत्र स्थाने तदर्थ मुखवासकराणि ताम्बूलादीनि लवङ्गैलाकस्तूरिकाकर्पूरादिविमिश्रितानि, पुञ्जीकृतानि, तत्स्थाने स्थापितवान् / तथा नानाविधसुरभिघ्राणतर्पणविधायकद्रव्यराशिभिः परिपूरितम् / तथा नानाजातीयमहामोदकरधूपराशीश्च तत्र कारितवान् / इत्थमनेकविधखादिमस्वादिमलेह्यपेयपदार्थैः निभृतं विधाय निर्गते च लोके निर्जने तद्राजमन्दिरे रात्री खड्गपाणिः स विक्रमो राजा समागत्य तस्मिन राजपल्यङ्के पुरुषाकृतिककाष्ठं स्थापितवान् / पुनस्तं वसनेन | समावृणोच्च / स्वयञ्च समुद्यतासिः क्वचिद्रहः स्थितो जातः / ततोऽर्धरात्रे मुखेन फूत्कारं विदधत् करेण च डमरुं वादयन् पद्भ्यां घुघुरारावं सञ्जनयन् रक्तायतलोचनः पृथ्वी चरणाघातेन कम्पयन वृक्षान शातयन सोऽग्निवेतालस्तत्रागात् / पुनस्तत्क्षणमेव तत्र पल्यकोपरि सुप्तं नराकारमसिना द्विधा कृतवान् / अथ भनङ्काष्ठमालोक्य नरमपश्यन्नभितो वीक्षमाणो यावदासीत् तावत्तत्र तस्याऽभिमुखीभूतो विक्रमस्तं वीरम्प्राणमत् / ततो वेतालस्तमेवमपृच्छत भो! एतत्सर्व किमर्थमत्र सश्चितं दृश्यते, राज्ञोक्तम् भगवन् ! त्वदर्थमेवास्ति / एतानि सर्वाणि गृहाण, सुखेन भुक्ष्व, नरभक्षणं जहि / अथ तत्सर्व भुक्त्वा सन्तुष्टो वेतालो भूपालमेवमुवाच / हे वीरविक्रम ! मया किलैतद्राज्यं तुभ्यम्प्रदत्तम् / परं नित्यमित्थमेतावान् बलिः त्वया प्रदेयः / इत्युदीये स वेतालोऽलक्ष्यो जातः / ततो निःशङ्को राजा तस्यामेव शय्यायां सुष्वाप / ततो जाते च प्रभाते विनिद्रो राजा स्नानादिकं विधाय विविधानि बहूनि दानानि चक्रे / पौरे च सर्वाः प्रजाः प्रमोदमापुः / तस्मै महीभुजे च सर्वे लोका आशिषो ददुः / इत्थं प्रजापालयतः प्रत्यहं तस्मै तथाविधवलिमर्पयतो राज्ञ एकदा मनस्येवं वितकों जातः। एतस्मै प्रतिरात्रं बलिमित्थं समर्पयामि, यदा न दास्यामि, तदा पुनरसो महोपसर्ग विधास्यति / अतः कोऽप्युपायो विधातव्यो येन तस्मै बलिर्दातव्यो //