________________ धमेवर सूक्तमुक्तावली // 10 // कौतुकानि विलोकमानः स विक्रमस्तत्रोजयिन्यां क्षिप्रातीरे समागत्य तस्थौ। तदा तत्रैकलक्षः पोठीनः सहावतीर्ण आसीत् / विक्रमोऽपि तन्मध्ये निशि चौर्याय प्रविवेश / तत्स्वामी च तस्मिन् समये केनापि मित्रेण सह सारिकापाशकक्रीडनं विदधदासीत् / क्षिप्रायाः पूरोऽपि तत्र समये महानासीत्, तत्रावसरे काचिदेका शृगाली जगाद, तच्छ्रुत्वा मित्रमपृच्छत् / हे श्रेष्ठिन् ! इयं शृगाली कि वक्ति ? पोठस्वामी न्यगदत् / हे मित्र ! शृणु सम्प्रति क्षिप्राप्रवाहमध्ये स्त्रीशवो याति तदङ्गे महार्हाणि विविधानि भूषणानि सन्ति / तथा धनमपि प्रचुरं तदने संबद्धमस्ति / यदीदानी कश्चन महाशूरो वीरो जलाच्छवमानीय भूषणानि सर्वाणि धनानि च गृहीत्वा तत्कलेवरं भोक्तुं में समर्पयेत् तर्हि वरम्, इति वदति क्रोष्ट्री। अथ तत्पोठमध्ये गुप्तः सर्वमाकर्णयन विक्रमस्तत्क्षणमेव क्षिप्रान्तः पपात / पुनस्तच्छवमानीय तीरे च धृत्वा तदङ्गतः सकलधनादिकं गृहीत्वा मुक्तः कलेवरस्तस्यै शृगालिकायै भक्षणाय विक्रमार्केण / अथ पुनस्तत्रैवाक्षदेवनस्थाने प्रच्छन्नतया गत्वा तस्थौ / श्रेठ्यपि मित्रेण साकमक्षकीडनं कुर्वन्नासीत् / सैव क्रोष्ट्री पुनरूचे भूयोऽपि तद्रावफलं श्रेष्ठिनं सोऽपृच्छत् / अथ श्रेष्ठिनोक्तम् / हे सखे ! इयमधुना यद् ब्रूते सदाकर्ण्यताम् / येन साहसिकशिरोमणिना पुंसा ममाऽपित भक्षणम्, स उज्जयिन्या राजा भविष्यति / विक्रमः सर्वमाकर्णितवान् / अत्रान्तरे पुनरुक्तं तया क्रोष्ट्या तेन मित्रेण तथैव तत्फलमपि श्रेष्ठी पृष्टः / तत्रावसरे प्रच्छन्नं स्थितं विक्रमं स सार्थस्वामी ददर्श / तत्क्षणं स विस्मितो यावदितस्ततो वीक्षमाण आसीत् / तावत्तदने गत्वा व्यक्तीभूय स विक्रमः सर्वमादितः शिवा भाषितफलमाकर्ण्य तं श्रेष्ठिनमेव मुवाच / हे महाभाग ! इतः प्रभृति त्वं मम मन्त्री जातोऽसि / ततस्तेन मन्त्रिणा साकं विक्रमो बहुविधशुभशकुनैः प्रेरितो हृष्टमना नगरम्पाविशत् / तदैव कोऽपि राजपुरुषः कस्यचिदेकस्य कुम्भकारस्य गृहे समागत्य तब गृहादेवाद्य | HARSAMRSACOCA- ARO