SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ // 2 // टीकेयमन्तिमस्रग्धरापद्यस्य-पूर्णसुन्दरतरे भरतपुरे निवासिन ओसवंशीय-पारिखगोत्रीयश्रेष्ठीवर्य-श्रीऋषभदासस्य केसरीनाम्न्या स धर्मचारिण्याः कुक्षितः सुसमये रत्नराजीयं जन्म वैक्रमीयेऽब्दे गुणवसुगजेन्दुवत्सरे 1883 समजायत / तदनु लघुवयस्येव सकुटुम्बमातृपित्रोरनुज्ञामादाय यतिवर्यश्रीप्रमोदविजयबृहद्गुरुभ्रातृहेमविजयेन वेदाभ्राङ्कभूवत्सरे वैशाखशुक्लपञ्चम्यां भृगुवासरे महता समारोहेणोदयपुरे प्रदीक्ष्य श्रीरत्नविजयनाम्नाऽपप्रथत / पुनस्तत्रैव कालान्तरेण तद्धस्तेनैव गुरुदीक्षाष्यभूत् / तस्यामेव यतिदीक्षायां स्वगुरुश्रीप्रभोदसूरिणा श्रीसंघसमस्या चतुर्विशत्यधिककोनविंशतिवत्सरे माधवशुभ्रपञ्चम्यां सोत्सवेन श्रीपूज्योपाधिना श्रीरत्नविजयोऽलंकृतः सन् श्रीमद्विजयराजेन्द्रपरिनाम्ना जगत्प्रख्यातिमाप! ततो मरुधर मेवाड़-मालवादिदेशेषु श्रीपूज्यपदवी प्रकाशयन् क्रमेण जावरापुर्यामाजगाम / तत्र प्राचीनश्रीपूज्येन गच्छसुधारात्मकनवनियमानि स्वोकारयित्वा श्रीसंघकृतभक्त्युत्सवेन पञ्चविंशत्यधिकैकोनविंशतिवर्षे आषाढशुक्लदशम्यां शनिवासरे अपूज्यं समग्रपरिग्रहं त्यकत्वा पञ्चसमितित्रिगुप्तियुक्तमहाव्रतधारी प्रसिद्धक्रियोडारकः सुगुरुजज्ञे / तदनन्तरं देशदेशान्तरीयभूमण्डले विहृत्य पष्टिचतुर्मासीं विधाय जिनशासनं समुन्नीय भव्यजीवांश्च समुध्धृत्य त्रिषष्ट्यधिकैकोनविंशतिसंवत्सरे पौषसितसप्तभ्यां मालबदेशस्थराजगढ़नगरे स्वर्गसुखं संजगृहे / स श्रीगुरुवर्योऽखिलान् जीवान्मे च श्रेयो दिशतु, इति श्रीगुलाबविजयो मुनिः सकलश्रीसंघसमक्षे निगदति / / // 2 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy