________________ ३-अथ धर्म-तत्त्वविषयेजलनिधि जलवेला चंद्रथी जेम वाधे, सकल विभव लीला धर्मथी तेम साधे / मनुअ जनमकेरो सार ते धर्म जाणी, भजि माजि भवि भावे धर्म ते सौख्य-खाणी / / 7 // यथा-चन्द्रमसा जलनिधिरेधते, तथा धभैराराधितैः संसारे लौकिक्यः सम्पदो नितरामभितो बर्द्धन्ते / अतः हे भव्याः! इहलोके मनुष्ययोनिमासाद्य सर्वसारं धर्मतत्वं सकलसुखनिधानं सादरमाराधयत // 7 // इह धरम पसाये विक्रमे सत्य साध्यो, इह धरम पसाये शालिनो साक वाध्यो / जस नर गज वाजी मृत्तिकाना जिकई, रण समय थया ते जीव सांचा तिकेई // 8 // किश्च हे लोकाः! पश्यत दुष्करमपि समीहितं धर्मप्रभावतो जायते / तथाहि-विक्रमेण वीरेण धर्मप्रसादादेव सार्वभौमत्वं प्राप्तम् / वीरसंवत्सरमपहृत्य निजनाम्ना संवत्सरमस्थापयत / अपि च धर्माराधनेनैव शालिवाहनो घराधीशो निजनाम्ना शकाब्दञ्जगति व्यवहारितवान् / महत्तरमकण्टकं राज्यमलभत / अन्येऽपि बहुशो वीराः सम्यग् धर्ममाराधयन्तो महागजतुरङ्गमादि दिव्यानि वाहनानि प्रापुः / तथा रणे विजयिनो बभूवुः // 8 // अथ धर्मतत्त्वोपरि विक्रमार्कस्य ३-कथानकं दर्यतेइह हि-मालवदेशे उज्जयिनी पुरी वर्तते, तत्र गन्धर्वसेननामा राजाराज्यङ्करोति / तस्य भूपते रूपलावण्यादिगुणै रम्भोपमा