SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ नाजाच्छन्ति / पुनरेतत्स्फुटायोतिका गाथाप्येवं-चत्तारि पंच जोयण-सयाइ गंधो अ मणुअलोगस्स / उ8 वच्चइ जेणं, न हु देवा तेण आवंति // 1 // किञ्च देवा देव्यो वा दासीकृता न सन्ति लोकैः / येन समागत्य तत्रत्यमखिलं वृत्तं लोकान् कथयेयुः। अपरमपि दृष्टान्तं प्रमाणतया त्वां दर्शयामि तमपि श्रद्धालुर्भूत्वा शृणु हे राजन् ! त्वामेव सुस्नातमनुलिप्तसुरभिचन्दनं, रमणीयशुकौशेयवसनाभरणमण्डितगात्रं देवपूजायै गच्छन्तम्पथि कश्चिचाण्डालादिजनो महताप्याग्रहेण यद्येवं ब्रूयात् / हे स्वामिन् ! अहं तव दासोऽस्मि सदैव भवदुच्छिष्टमश्नामि, सांप्रतमप्युच्छिष्टमेव शिरसा वहन व्रजामि। परं मयाऽद्य महाश्चर्य विलोकितम् / तदिहागत्य मत्तो भवद्भिरवश्यं श्रोतव्यम् / इति तदाहूतस्त्वं तदन्तिकं गमिष्यति नवेति राजोवाच हे स्वामिन् ! तदानीं नाह तत्पार्श्व गच्छानि, तदुक्तं श्रोतुं तत्र क्षणमपि न तिष्ठानि / इति राज्ञो वचः समाकर्ण्य गुरव ऊचुः / हे राजन् ! यथा विशिष्टं देवा| र्चनादिकृत्यं विहाय भवान् नीचजनान्तिकमालपितुं न जिगमिषति / तथैव देवतापि मनुष्यैः सहाऽऽलपितुमिहलोके नायाति / परन्तु कियन्तो देवा वचनपारवश्यादिकारणेन कदाचिदेवात्र समागच्छन्ति / तत्कारणमेव दर्शयति-गाथापंचसु जिणकल्लाणेसु चेव, महरिसितवाणुभावाओ / जम्मंतरनेहेण य, आगच्छति सुरा इह यं // 1 // व्याख्या-जिनेश्वराणां पञ्चकल्याणके तथैव महर्षीणां तपप्रभावाद्देवा अत्र समायान्ति / पुनर्भवान्तरप्रवरस्नेहप्राचुर्येण श्रीशालिभद्रपितृवत द्वेषेणाऽपि च संगमदेक्वद्देवा मर्त्यलोके समागच्छन्ति / नान्यथेति श्रुत्वा नृप एवमाचष्ट प्रभो ! गतो मे संशयसकलोऽप्यत्र विषये / परमन्यमेकं पृच्छामि, तमपि युक्त्या निराकरोतु भवान् / तथाहि-हे गुरो! हे परन्तु कियन्तो देवा वानापजनान्तिकमालपितुं न जित रालो वचः समाकये गुरव राजावाच हे स्वामिन् ! तदानी - 151
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy