SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ रक्त धर्मवर्गः धमवगः मुक्तावली तच्छ्रुत्वा प्रमोदमापनस्तत्कालमेव सुसज्जीभ्य तदुद्यानं विहाराय मन्त्रिणा सह चचाल / एवं स मन्त्री नृपं वनक्रीडाम्याजेन तत्राऽनयत् / यत्र स चतुर्ज्ञानी महामुनिः सकलकलाकुशलो नर-नारीकदम्बमण्डिते सदसि सुकृतिजनसुलभरितरजनबुरापैराईतशाश्वतधर्मधुरस्वरैः श्रोत्श्रोत्रालादकरविकानतिगृढमपि तत्वं बोधयाऽऽसीत् / अथेदृशं मुनिमालोक्य तमुपहमन राजा मन्त्रिणमेवं वदितुं लग्नः / तद्यथा-अरे चित्रसारथे ! असौ मुण्डी किम्प्रलपति ? असौ श्रोतृजनवसनाचके किमपि बध्नाति किम् ? कोऽयं पाखण्डी दृश्यते ? नृपोक्तमेतदाकर्ण्य प्रधानोऽवदत् / महाराज ! अहमप्येनं न जानामि, ययेनं ज्ञातुमिच्छसि तर्हि तदन्तिके गन्तव्यम् / ततो ज्ञास्यसि कोऽस्ति कीदृशश्चेत्यादि सर्वम् / अथैतन्मन्त्रिवचः सम्पगिति मत्वा मन्त्रिणा सह गुरोः पार्थेऽभिमानेन वन्दनादिकमकुर्वाणो नृपस्तत्रोपाविशत् / तदानीं गुरुरपि राज्ञः प्रश्नावसरप्रदानाय जीवविषय एष प्राधान्येन व्याख्यातुं प्रारेमे / अथ राजाऽपि यकुमवसरमासाथ गुरुम्प्रत्येवमपृच्छत-हे स्वामिन् ! त्वमेताः सरला मम प्रजा इयतीमसती वाणी मुघा प्रलप्य कथं वश्चयसि ? तत्रापि जीवसत्तां निरूपयसि / जीवो हि-गगनकुसुमायमान एवं प्रतिभाति / सतपदार्थस्याऽवश्यमुपलब्धिरपि भवति / यदि शरीरे कोऽप्यन्यो जीवात्मा भवेत् तर्हि तदुपलम्धिरपि भवेदेव / तथा न भवत्यतो जीवनिरूपणं सर्वथाऽलीकमेव नि / मया तु बहुधा विलोकितेऽपि समाहूतोऽपि जीवः कुत्राऽपि नैवाऽदर्शि। अथ गुरुरवादीत-भो राजन् ! त्वं प्रत्यक्षमेव प्रमाणं मनुषे / अनुमानादिकं नैव मन्यसे चेदतः पृच्छामि यथा प्रत्यक्षाऽभावाज्जीवसत्वाऽभावो निश्चितस्त्वया, तथैव तव पृष्ठभागस्य चाक्षुषं प्रमाणमपि न जायते / इति तदभावोऽपि मन्तव्यः / यदि स्वपृष्ठभागस्य स्वचक्षुषा ग्रहणं न सम्भवति, तथापि निजपृष्ठभागसत्ता स्वीकरोषि तर्हि किमपराद्धं जीवसत्तया / येन तुल्येऽपि -967
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy