________________ मक्षिका मुक्तावल्या // 148 याति / पापीयांस्तु यावज्जीवमत्र यथा दुःखी जायते, तथा मृत्वाऽपि नारकी यातनामनेकविधा चिरं सहते / एष जीवोष्ट- पञ्चाशदुत्तरशतप्रकृतिकानि कर्माणि सश्चिन्वन सुखदुःखे अक्ते / अतो हे जीवा ! धर्मेऽवज्ञा मा कुरुत, सादरं च धर्म सेवध्वम् / यत्सेवनतः क्षीणसकलकर्मोपाधिकाः यूयं मोक्षमाप्स्यथ / एवमनन्तचतुष्टयमर्थात-ज्ञानदर्शनचारित्रवीर्याऽऽनन्त्य सुखेन लप्स्यध्ये / असौ जीव एक एव याति, पुनरेकाक्येवायाति चेति विदित्वा मोहं त्यजत धर्म च निश्चलां मतिं कुरुत // 16 / / ए एकलो जीव कुटुम्बयोगे, सुखी दुखी ते तस विप्रयोगे। स्त्रीहाथ देखी वलयो अकेलो, नमी प्रबुद्धो तिण थी वहेलो // 17 // अहो ! चेतनोऽसौ धनकलत्रपुत्रमित्रादिसंयोगे सुखी भवति, विप्रयोगे च तेषां बहुदुःखमुपैति / नमिराजो यथा-निजप्राणगरीयसीप्रेयसीकरपल्लवकंकणनिमित्तात्सद्य एव प्रतिबुद्धोऽभूत्पुरा तत्संयोगात्क्लेशमप्यन्वभूत् // 17 // अथैकत्वभावनोपरि नमिराजस्य १०-प्रवन्धः___ पुरा विदेहदेशे सुदर्शनपुरनगरे मणिरथनामा राजाऽभूत्तस्य च कनीयान् युगबाहुनामा बन्धुरासीत् / अस्य प्राणेभ्योऽपि गरीयसी प्रेयसी महारूपलावण्यवती शीलवती गुणवती मदनरेखानाम्नी भार्याऽऽसीत् / तस्यामनुरागी भवन् मणिरथो राजा दास्या तस्या अन्तिके प्रत्यहं सारसारवस्तूनि प्रेषितु लगः, तानि च पूज्यप्रेषितानि मत्वा सादरमाददानाऽऽसीन्मदनरेखाऽपि तेन निजोद्योग सफलं मन्यमानो नृपो मोदमावहन दासीमुखेन स्वाशयं तस्यै सचितवान् / तदाकर्ण्य प्रकुपिता सा तां दासी भृशं // 148 //