________________ NROERATO भर्त्सयन्ती जगाद-अरे दासि ! राजा मे पूज्यो ज्येष्ठो लगति / अहं हि तस्य भ्रातृवधूः पुत्रीकल्पासि स कदाचिदपि गर्हितमीदृशं मां नैव भाषेत। सत्यमेतन्न प्रत्येमि, अन्यदप्याकर्णय यथा सूर्यः प्राचीं हित्वा प्रतीच्यां नोदेति, यथा वा शीतांशुरग्निकणान्न वर्षति, सागरो वा यथा मर्यादा न त्यजति, तथा शीलशालिनी कामिनी परं नरं स्वप्नेऽपि नैव वाञ्छति / इति मदनरेखोदितं सा दासी मणिरथज्येष्ठमवादीत् / ततो दुर्धीः स एवं दध्यौ-यदियं युगबाहौ जीवति सति मय्यनुरागिणी न भवितुमर्हति, अतोऽयं बन्धुर्येन केनोपायेन हन्तव्य इति निर्णीतवान् / पुनरेकदा रात्रौ सभार्यो युगबाहुः केलिवने समागत्य सुष्वाप / अथैतत्स्वरूपं चरमुखादवगत्य स दुर्धारवसरं प्रतीक्षमाण एकाकी गाढान्धकारवत्या रात्रौ तत्राऽऽगतवान् / तत्र रक्षकेण पृष्टः-कस्त्वम् ? कुत इदानीमनवसरेऽत्रागतोऽसि ? तेनोक्तं-अहं मणिरथो राजाऽस्मि / कुतोऽप्यागतं भयमालोक्याज बन्धोरन्तिकमागतोऽस्मि / तदुक्तं सत्यं मन्यमानेन रक्षकेण मुक्तः स तत्समीपमागत्य तस्थौ / तदानीं मदनरेखा तमागतं ज्येष्ठ विलोक्य पल्यङ्कादुत्तीर्य दूरमागत्य तस्थौ। तदैव दुरात्मा खड्गं कोषादाकृष्य निजबन्धोः शिरोऽच्छत्सीत् आऋष्टवांश्च-भो भोः सेवका! उत्तिष्ठतोत्तिष्ठत, मम पाणेरकस्मात्पतितेन खड्गेन बन्धुर्हिसितः। इति निशम्य तत्रागताः सर्वे लोका एवं विदितवन्तो यदनेनैव दुरात्मना विषयलुब्धेन बन्धुरसौ निहतः। अथ सेवकेन निष्कासितो मणिरथो मार्गे गच्छन् कृष्णसर्पण संदष्टो मृत्वा नरकमवाप अहो! अत्युत्कटं पापं तत्कालमेव फलितं तस्य दुर्धियो मणिरथस्य / प्रभाते तत्सर्व नगरवासिनो विविदुः / अथ पितरं तथावस्थमाकलय्य तत्पुत्रश्चन्द्रयशा राजकुमारस्तत्कालमेव भिषग्वरानाकार्य तचिकित्सां प्रारेमे / परं सहस्रशो विहितेष्वप्युपचारेषु मनागपि फलं नाऽभूत् / अथ तदासनं मृत्युं ज्ञात्वा तस्य श्रेयसे धर्मकृत्यमेव कर्तु युज्यत इति विमृशन्ती मदनरेखा कथश्चिर्यिमालम्ब्य तत्कणे मुखं निधा