________________ मुक्कावल्या // 147 // बदामि यत्र 2 योनावुत्पेदिरेऽमी जीवास्तत्र 2 नानाविधसंचिताशुभकर्मविलासासंयोगवियोगादिबहुविधा दुःखसंततिमनुभवन्ति IDIमोक्षवर्मा स्मेति विचार्य यः संसारमसारं त्यजति, धर्मश्चाश्रयति स इह सर्व सुखमश्नुते चान्ते मोक्षादिकमपि लभते // 14 // इन्द्रवजा-छन्दसि-जे हीन ते उत्तम जाति जाए, जे उच्च ते मध्यम जाति थाए / ज्यू मोक्ष मेतार्य मुनींद्र जाए, त्यूं मंगुसूरी पुरयक्ष थाए // 15 // अहो ! कर्मवैचित्र्यं येच हीनयोनावुत्पन्ना दृश्यन्ते, ते भवान्तरे किलोत्तमजातिमधिगच्छन्ति / एवमुत्तमजातीया अपि मृत्वा नीचजातौ जायन्ते मेतार्यवन्मंगुसरिवञ्च / / अथ संसारभावनोपरि मङ्गसूरेः ९-प्रबन्धापुरा कश्चिन्मंगुनामा मूरिः पञ्चशतशिष्यैः सेवितो ज्ञानसागरः शुद्धसाध्वाचारप्रतिपालकः पञ्चसमितिसुमण्डितः त्रिगुप्तिगुप्तः कदाचिदेकदा मथुरानगरीमगात्तत्रत्यसंघस्तं वंदितुमाययौ / तदीयदेशनामृतं निपीय समुल्लसितमनाः श्रीसंघः सपरिवार तमाचार्य महामहेन नगरान्तरानीय निर्वाध उपाश्रये स्थापयामास / प्रत्यहं द्विसन्ध्यं भक्त्या सरसमाहारमभोजयत्। ततः क्रमेण स सूरी रसलोलुपोजातो निजात्मानञ्च धन्यममन्यत / तथाहि-अहमिवाऽन्यः कोऽपि सरसमाहारमीदृशं न लभते। यथा मृदुस्थूलास्तरणप्रावरणचन्द्रकवितानपाटपाटलादिसमृद्धिमानहं तथा नान्यः कोऽप्यस्त्येवमिन्द्रियजं सुखमपि स बहुशो विवेद / अथ रस-शाता-समृद्धिगौरवमितः स गुरुः कुत्राप्यन्यत्र विहाँ नैच्छत् / तत्रैव तिष्ठन् पूर्णे चायुषि कालं कृत्वा तस्मिन्नेव पुरे नदीतीरे यक्षो जज्ञे / अथ 1 // 147 //