________________ 7070 अहं ते नाथोऽस्मि, त्वं चिन्तां त्यज, चेत्संसाररिरंसा तर्खेतद्वेषं त्यज, सांसारिक सुखं भन / पुनः साधुजगाद-राजन् ! त्वन्तु कथमपि मम नाथो भवितुं नाहसि, यत्स्त्रयमनाथोऽसि / राजाज-भो मुने ! मगधाधीश श्रेणिकनामानं राजानं मामपि वमनाथं कथं भाषसे ? एवं ते मृषावाददोषः किं न लगति ? लगत्येव / साधुनिगदति-राजन् ! ईदृशी सनाथता ममाप्यासीदेव, यतः कौशाम्बीनगरीपतेः पुत्रोऽस्मि विलसति च मे मातापित्रादिपरिवारः कलत्रमप्यस्ति / इतोऽन्या सकलाऽपि राज्यसमृद्धिविद्योतते। परमहं चिरं दीर्घरोगी जातः, सद्वैद्यैश्चिकित्सितः स नाऽशमन वा कलत्रादिर्मदीयवेदनां व्यभजत / ततोऽसारसंसारविरक्तोऽहं धर्मशरणमादाय निशि सुप्तः प्रभाते च रोगमुक्तो जागृतवान् / ततश्चारित्रं लात्वा गृहानिर्गतोऽस्मि / अर्थतन्मुनिगदितं सत्यवृत्तमाकाऽज्ञातकृतं निजागसं भृशं क्षमयित्वा तमभिवन्य तत्पार्श्वे सम्यक्त्वमासाद्य पुनः स वीरप्रभोरन्तिकमेत्य भक्त्या त्रिःप्रदक्षिणीकृत्य सम्यक्त्वदायमलभत / ततश्चाऽनाथिमुनिः क्षीणकर्मा प्रान्ते मोक्षमाप / अनाथिमुनिवदन्योऽपि योऽशरणभावनां भावयन् धर्मशरणं विधास्यति, सोऽपि तद्वदेव क्षीणकर्मा भूत्वा शिवसुखं प्राप्स्यति // ५-अथ ३-संसारभावनां विवृण्वन्नाह-शार्दूलविक्रीडित छन्दसितिर्यचादि निगोद नारक तणी जे योनि योनी रयां, जीवे दःख अनेक दुर्गतितणा कर्म प्रभावे लयां / ज्यां संयोग वियोग रोग बहुधाज्यां जन्म जन्मे दुखी, ते संसार असार जाणि इहवोजे एतजे ते सुखी॥१४॥ यथा-अमी जीवाः कर्मयोगादनन्तसमयं दुःखपारम्पर्यमसहन्त / तिर्यक्त्वनारकित्वादि बहशो लेमिरे / अहो ! किमधिक RECORREAR 1+296