SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ * एक * मुक्तावल्यां // 146 // * * * * ___अथाऽशरणभावनोपरि-अनाथिमुनेः ८-कथा मोक्ष यथा-कौशाम्यां पुर्या राज्ञस्तरुणः पुत्रो महारोगेण पीडितो जातः / महावैद्यास्तस्य चिकित्सां चिरमकुर्वन् परं मनागपि तदुपशमो नाऽभवत् / तथावस्थे तस्मिस्तस्य माता पत्नी च भृशं दुःखार्ता रुदती शोचति / समीपस्था भगिनी जल्पति हे भ्रातः ! निजवेदनां मे देहि, त्वं सुखी भव / परं मातृकलत्रमित्रादयोऽपि सर्वे विफलप्रयत्ना जाताः, कोऽपि तं नीरोग विधातुं न शशाक / अथैकदा तन्मनसीदग्विचार उत्पेदे, यथा-धर्म एव सर्वेषां विपत्तौ शरणं भवति, धर्म विना कोऽपि न त्रायते / अतो मयाऽपि स एव शरणीकर्तव्यः, इति सुनिश्चित्य निशि स सुष्पाप, प्रभाते चोत्थितः स रोगमुक्तमात्मानं विलोक्य जहर्ष / राजकुमार स्वस्थं विलोकयन्तः सर्वेऽपि जनाः प्रमोदमेदुरा अभवन् / प्रवर्तमाने च मंगलवाये स राजकुमारः पंचमुष्टिलुश्चनं विधाय कलत्रादिपरिवारैर्निवारितोऽपि जगाद-भोः परिवार ! समाकर्णय २-भवत्सु सर्वेषु सत्स्वपि रोगात मां सुखयितुं कोऽपि नैव प्रबभूव / तर्हि एतावदिनानि भवत्सु कृतेन स्नेहेन किमभूत् ? धर्मे तु निशामेकामेव रागो जज्ञे, तत्फलमिदं जातम्, यच्चिरोद्धृतोऽपि रोगः क्षणादेव व्यनीयत / अतोऽहमद्यप्रभृति कृतधर्मशरण एनमसारसंसार तत्कामो विहरामीति निगद्य ततो निजात्मसोधनार्थ निरगात् / कियन्तं पन्थानमतिक्राम्य क्वचित्तरुमूले निषसाद, तावत्तत्र वीरप्रभुं वन्दित्वा तेनैव मार्गेण परावर्तमानः श्रेणिको राजा तमालोक्य गजादवतीर्य तं प्रणनाम जगाद च-हे मुने! त्वमिदानीमनवसरे तारुण्यवयस्कः कथं प्रवत्र जिथ ? यतो यो हि भुक्तभोगः प्रव्रजति स निर्विघ्नं संयम पालयति / तनिशम्य मुनिरूचे हे मगधेश ! अहमनाथतया साधुरभूवम् / तच्छत्वा राजा दध्यौ-नूनमेष कश्चिद्रंककुलजातोऽस्ति, तत्रापि मातापित्रादिविहीनः, यदुक्तमनाथतयेति / पुनस्तमूचे राजा-मुने! 13 * * 2 // 146 // -
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy