________________ वेषानभिवन्ध स्वालयमीयुस्तेऽपि चारित्रं पालयन्तः सुखिनोऽभूवन् / इत्थं मेतार्यमुनिवर्यस्याऽधिकारः क्षमोपरि निगदितः / उक्तञ्चोपदेशमालायाम् जो कोंचगावराहे, पाणिदया कोंचगं तु णाइक्खे / जीवियमणपेहतं, मेयजरिसिं णमंसामि // 1 // णिप्फेडियाणि दोणि वि, सीसावेढेण जस्स अच्छीणि। ण य संजमाउ चलिओ, मेयजो मंदरगिरिव्व।।२।। अहो! पूर्वभवे साधुवेशे यद्गोपालसाधुर्मनस्यपि साध्वाचारघृणामकरोत्तेन हेतुना तस्यात्र जन्मनि चाण्डालगृहे जन्माऽभूत् / अतो वच्मि कैश्चिदपि कदाचिदपि चारित्रे घृणा नैव विधातव्या, किश्च मेतार्यमुनिः पक्षिजीवानुकम्पोदयात्स्वप्राणातिपातेऽपि क्षमा न | जहौ तेन स मोक्षमाप / इत्थमन्यैरपि क्षमाधर्म विधातव्यं तेन मेतार्यमुनीश्वरवदक्षय्यं सुख प्राप्तव्यं सर्वैभव्यवरिति / . अथ ३-संयम-विषये-स्वागता-छन्दःपूर्व कर्म सवि संयम वारे, जन्म-वारिनिधि पार उतारे। तेह संयम न केम धरीजे ?, जेण मुक्ति-रमणी वश कीजे // 8 // अथ चारित्रशब्दस्य कोर्थ इति जिज्ञासायामाह-यचित-सञ्चितमष्टविधं जन्मजन्मान्तरीयमशुभं कर्म नाशयति तथा भवसागरतस्तारयति तदिदं चारित्रं सर्वेरेव सादरं कथं न ग्राह्य ? येन शाश्वतसुखदायिनी शिवसुन्दर्यपि वश्या भवेत् // 8 // तुङ्ग शैल बलदेव सुहायो, जेण सिंह मृग बोध बतायो / तेम संयम लहीय अरायो, जेण पंचम सुरालय पायो // 9 //