________________ a O मुक्तावल्यां // 142 // SARSOCIEDGCARRESAKXE यदा किमपि नोत्ततार न वा तार्पयत्तदा पुनर्भणितस्तेन-भोः पाखण्डिन् धर्मधूराइ ! अहं शान्त्या मुहुस्त्वां कथयामि त्वं मौन-10मोक्षवर्ग: माश्रित्य कथं तिष्ठसि सत्वरं देहि नो चेद्धनिष्यामि / परं स क्षान्तशिरोमणिर्दथ्यौ-यत्सत्यं वदानि तर्हि जीवो हिंसितो भवति / अतो मया परजीवजीवातवे नश्वरमेतच्छरीरमपि देयमेवेत्थं विचिन्त्य तूष्णीस्थितस्य मेतार्यमुनेः शिरः प्रकुपितः पश्यतोहर आईचर्मणा दृढं बध्वाऽसह्याऽऽतपे चिरं समतिष्ठिपत् / किश्चिद्विरम्प समाकृष्टे चर्मणि तद्वेदनातो मेतार्यमुनेर्नयने युगपदेव निपेततुः / तदापि समतां भावयन् क्षान्त्या तद्वेदना सहमानो मेतार्यमुनिरन्तकृत्केवलीभूत्वा मोक्षमधिजगाम / तदैव कोऽप्येकः काष्ठभारवाही तवृक्षमूलमवष्टंभ्य काष्ठभारं दधार / तदाघातभीत्या स क्रौञ्चपक्षी पुरा निगीर्णान् यवान् सर्वानवमत, तदालोक्यातिभीतः स दध्यौ-अहो ! मम कीदृशं दुर्दैवमागतमेष मुनिः श्रेणिकनरेन्द्रस्य जामाताऽस्ति / यं वीक्ष्य प्रधानादयः सर्वे प्रणमन्ति, स एव मया निहतः / महाननथों जात, एतद् घोरकर्म सपरिवार मां विनाशयिष्यति / इदानीं साधुवेष एव त्राता भविष्यति नान्यः कोऽपीति विमृश्य सकुटुम्बः स स्वर्णकारः साधुवेशं विधाय तत्रोपाविशत् / कियकालानन्तरं तन्मुनेस्तादृशवधादिवृत्तमाकर्ण्य कुपितो राजा भटानेवमादिशत्-भो भो भटा ! यूयं तत्र गत्वा स्वर्णकारं बध्या तमघाऽऽनयत / तेऽपि तत्रागत्य सर्वान्मुनीनेवाऽपश्यन् / पुनस्ते नृपान्तिकमागत्य जगदुः-स्वामिन् ! तत्र तु सर्वे साधव एव दृश्यन्ते, स स्वर्णकारस्तु कुत्रापि न दृश्यते / अथ स्वयमेव श्रेणिको राजा भटैः सह तत्रागत्य तानखिलान्मुनिवेषेणोपविष्टानालोक्य जगाद-अरे पश्यतोहर ! त्वया साधु कृतम्, यदीदृशं कुकृत्यं कृत्वाऽपि चारित्रं जग्राह / अन्यथैतदन्यायफलभोग विना तव मुक्तिः कथं स्यात् ? पुनर्नृपादयस्तान धृतसाधु- 142 //