SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अथ क्षमागुणेन मोक्षमितस्य कूरगडुमुनेः ३-कथायथा-पुरा कश्चित्कूरगडुनामा साधुनिरन्तरमुदरपूरमाहारमोदनममुक्त / कदापि तत्यागं न करोति स्म, तमन्ये मुनयः कथयन्ति मोः ! तपसो महाफलमस्तीति सर्वे सहर्ष तपस्यन्ति / त्वन्तु कदापि न करोषि परं स शक्त्यभावशात्तपस्यामकुर्वाणोऽप्यन्येषां तपस्विनामनुमोदनात्तत्फलमधिकमाप / अथैकदा संवत्सरीतः प्राग्दिन एव सर्वे साधवः द्वचहीनमुपवासं प्रारेभिरे / तत्रावसरे शासनदेवी श्राविकारूपेण तत्रागत्य प्रथम कूरगड्डमुनिमवन्दत / तदालोक्य साधव ऊचुः-हे श्राविके ! तव विवेको नास्ति / यत्चया तपस्विन एतान्साधून विहाय प्रथममुदरंभरिः कूरगडुसाधुरभिवाद्यते / तयोक्तं भो मुनयः ! तपस्यतां भवतामीदृशो मत्सरो न युज्यते यतोऽस्य प्रभाते समुज्ज्वलं केवलज्ञानमुत्पत्स्यते / तस्मिन्नवसरे किलैतद्वदनाय समागतेषु सुरासुरकिभरविद्याधरादिषु ममैतद्वन्दनाऽवसरो न मिलिष्यति / अतोऽहमद्यैव महान्तमेनं वन्दितुमागताऽस्मि / तनिशम्य मत्सरी कश्चिन् मुनिरभाषत-सत्यमस्यैव केवलज्ञानमुत्पत्स्यते ? तयोक्तं तर्हि कस्याप्यन्यस्य तदुदेष्यति ? इति निगद्य तमभिवन्द्य सा शासनदेवी स्वस्थानमागात् / ततः सञ्जाते प्रभाते संवत्सरीदिवसे सत्यवसरे स कूरगडुमुनिः श्रावकागारमागत्य निजोदरपूरमोदनं प्रतिलभ्योपाश्रयमाययो, तत्र च सर्वान्मुनीन्यमन्त्रयत् / अस्मिन्नवसरे स मत्सरी मुनिस्तत्राऽऽत्य तस्मिन्बोदने ष्ठीवनमकरोत् / परमनेन कूरगडुसाधुना व्यचिन्ति-अद्य मया घृतं न लब्धमतोऽनेन मुनिना मदीयाहारे घृतमेव ष्टीवितमित्थं सुभावनां भावयतस्तस्य केवलज्ञानमुदपद्यत / तस्मिन्नवसरे तं वन्दितुमिन्द्रादयो देवा आजग्मुस्तैश्च महामहश्चके / इत्यद्भुतवृत्तमालोक्य स मत्सरी मुनिर्दथ्यौ-गतेऽहनि यात्र श्राविका समागता सा मानुषी न किन्तु देव्यासीत् / तदनु सर्वे मुनयस्तं कूरगडुमुनि ववन्दिरे स्वापराधमपि क्षामितं पश्चात्तापं च वितेनुः / तेन SHAMAKHAKEUCIRREGARERES
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy