________________ मोक्षवर्गः४ मुक्तावल्यां BREBELAXELANEMALECX वश्यमेवैतत्फलं भोक्ताऽस्मि एतानि महापातकानि कदापि मां न हास्यन्ति / इत्थं कृतानुतापः स तदैव कृतपञ्चमुष्टिलुचनः प्रथमं पुरद्वारमेत्य कायोत्सर्गध्याने तस्थौ। तदानीं तत्र तं तथावस्थं पश्यन्तः सर्वे लोका: स एव लुण्टाकः क्रूरकर्मेदानी पाखण्डी जात इत्युच्चरन्तस्तदुपरि केचन नरास्तु लोप्टेष्टिकोपलादिकानि क्षिपन्ति / अन्ये च महापापीयानिति मत्वा कृपाणादिशस्त्रास्त्रैस्तं घातयन्ति, तथापि स ध्यानं न त्यजति / इत्थमुपसर्गान् सहमानः स सार्द्धमासं तत्रैवाऽतिष्ठत्ततः स्वत एव लोकास्तदुपसर्गकरणाद्विरेमुः। अथ स दृढप्रहारी ततोऽप्यन्यस्मिन्पुरद्वारे समेत्य ध्यानारूढस्तस्थौ / तत्रापि सार्द्धभासं लोकास्तमुपदुद्रुवुः दण्डादिपातनेन धूलिप्रक्षेपेण लोष्टादिप्रहारेण शस्त्रास्त्रादिनिपातनेन च भृशमुद्वेजितोऽपि यदा स ध्यानान विरराम / तदा स्वत एव तदुपद्रवाते लोका न्यवर्तन्त / तदनु नगरस्य तृतीयद्वारि समागत्य पुनानमभजत / तत्रापि सार्द्धमासं लोककृतपरीषहानसहत, ध्यानान्न चचाल / पुनरसौ चतुर्थद्वारि समागत्य ध्यानलीनोऽभवत्तत्रापि सार्द्धमास लोकैस्तथैवोपद्वतः, परमित्थं षण्मासी क्षमागुणमाश्रित्य बहुविधपरीषहं सेहे / ततोऽस्य षष्ठे मासि केवलज्ञानमुत्पेदे / अहो ? कीदृशः क्षान्तिगुणो यदसौ दृढप्रहारी जगदद्वितीयक्रूरकर्मा महापापिष्ठो भूत्वाऽपि केवलं क्षमागुणयोगतोऽष्टविधकर्मक्षयं विधाय केवलज्ञानमासाद्य दुरापां मोक्षश्रियमभजत् / अन्येऽपि ये केचन क्षमागुणं धरिष्यन्ति, तेऽपीत्थमेव मोक्षसुखं शाश्वतमवश्यमेवाऽनुभविष्यन्ति, अतो हे भव्या ! यूयमवश्यमेव भमागुणं धरत / यतः यस्य क्षान्तिमयं शस्त्रं, क्रोधाग्नेरुपशामकम् / नित्यमेव जयस्तस्य, शत्रूणामुदयः कुतः ? // 1 // श्रूयते श्रीमहावीरः, क्षान्त्यै म्लेच्छेषु जग्मिवान् / अयत्नेनागतां क्षान्ति, वोढुं किमिति नेश्वरः ? // 2 // RECRUIRERAKS+5 तु नगरस्य तृतीयद्वारपातनेन च भृशमुद्देजितो तत्रापि सार्द्धमास लोका // 139 //