SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ सक्तसुक्तावल्यां // 133 // RECRUKMSROBHABAR साधु मेने / पुनश्चक्रवर्ती सभामागत्य तदीयशोकापनोदाय द्विजमेवमुवाच-हे द्विज ! संसारचक्रे समागतो जीवः सर्वोऽपि म्रियत कामवर्ग:३ एव / यदेतज्जगदनित्यं गीयते भावी केनाऽपि रोढुं न शक्यते, अतः शोकं त्यज, अस्य चोत्तरक्रियां विधेहि / तच्छ्रुत्वा द्विजो जगाद-'परोपदेशे पाण्डित्यं, सर्वेषां सुकरं नृणाम्' इत्यस्योदाहरणं माभूः यदुदीरितं तत्त्वयाऽपि परिपाल्यमेव / भवतामपि षष्टिसहस्रपुत्रा नागदेवेन भस्मसात्कृताः / अथैतद्बज्रपातोपमगिरमाकर्णयमेव नृपेन्द्रो मूर्छामापन्नो विचेतनो भूमौ पपात / तदनु कृतनानाविधशीतलोपचारेण लब्धचेतनो भृशं शोचन विलपंश्च चक्रवर्ती प्रकटितस्वरूपेणेन्द्रेण गतशोको विदधे / ततः स्वलोकमागात् / ततः सगरचक्रवर्ती निजपौत्राय भगीरथाय सेनाऽऽधिपत्यमदादिति पुत्रमोहाधिकारो दर्शितः / अथ शय्यभवसूरितत्पुत्रमनकयोः १२-कथायथेह पुरा श्रीवीरप्रमोः पट्टे श्रीसुधर्मस्वामी स्थापितस्तत्पढे श्रीजम्बूस्वामी, तत्पट्टालङ्कारी श्रीप्रभवस्वाम्यभूत् / स हि प्रान्ते निजपट्टालङ्कारियोग्य कमपि यदा जिनशासने नाऽपश्यत्तदा लब्धिप्रयोमेण शय्यंभवनामानं द्विजवरं यज्ञं विदधतं सूरियोग्यतमं मत्वा तत्प्रतिबोधाय द्वौ मुनी तत्पार्श्वे प्राहिणोत् / तो तत्र गत्वा जगदतुः-"अहो ! कष्टं महाकष्टं तवं न ज्ञायते त्वया" तयोरेतद्वचो निशम्य शय्यभवोऽपृच्छत् भो मुनी! युवाभ्यां किमुच्यते ? तावूचतुः / आवामन्यन्न किमप्यवोचाव / ततो यज्ञस्तम्भमुत्पाठ्य तदधः श्रीजिनेन्द्रविबं तो मुनी अदर्शयताम् / ततस्तेन संजातप्रतिबोधः स्वपत्नी गर्भवती हित्वा शय्यंभवः प्रवव्राज / निरतिचारं चारित्रमवन् शिक्षितसाध्वाचारविचारोऽनुक्रमादाचार्यपदमाप / इतश्च गृहे तत्पत्नी नवमे मासि पुत्र प्राऽसोष्ट, तदीयं नाम 'मनक' IM // 133 / /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy