SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ E%ER- इति चक्रे / लोका ऊचुः-यदीदानीमस्य पिता गेह अभविष्यत्तर्हि सम्यग् जन्मोत्सवमकरिष्यत् / अथाऽनुक्रमेण वर्द्धितः संस्कृतश्च Pस शिशुातुर्मुखारिपतुः स्थिति निशम्य मातरमापृछय यत्र नगरे तत्पिता शय्यंभवसूरिरासीत्तत्रागात् / तत्र च तस्मिन्नवसरे स्थण्डिले | गच्छतस्तस्य मात्रोक्तसुलक्षणेन तं स्वपितरमुपलक्ष्य तच्चरणे स मनकशिशुः पपात / तदा सरिः श्रुतज्ञानयोगात्तमुपलक्ष्य पृष्टवान् भवान कोऽस्ति, कुत आगम्यते ? मनकोऽपि स्ववृत्तमाद्यन्तं तस्मै निवेदितवान् / सूरिणोक्तं-भो वत्स ! त्वया कस्याऽप्यन्यस्याऽग्रे एप आवयोः संबन्धो न वाच्यः, पुत्रोऽवक् तथास्त्विति / अथ तदैव स्थण्डिलानिवृत्तः सूरिस्तमुपाश्रये समानीतवान पुनस्तं शीघ्रमेव दीक्षां ददौ / ततस्तत्राऽप्यागमज्ञानेन तस्यासनकालं ज्ञात्वा दध्यो-आयुश्चास्यात्यल्पीयः / अनेन गतायुषा किमपि पठितुं न शक्यते / अतस्तदुद्धारहेत प्रातरारभ्य सन्ध्यापर्यन्तं दशभिरध्ययनैरलङ्कतं दशवकालिकं सूत्रं निर्मितवान् / तच्च षड्भिर्मासैः सोऽध्यगीष्ट संपूर्ण ततः क्षीणायुः स ममार / श्रावकाश्च तस्यामिसंस्कारं विधायोपाश्रयमैयुस्तत्रावसरे श्लोकं पठतस्तस्य सूरेनमनाभ्यामणि निर्जग्मुः। ततः संघोऽपृच्छत् स्वामिन् ! चतुर्दशपूर्वधारिणस्त वेशो मोहः कुतः ? गुरुरवक-भो भव्याः! स मे पुत्र आसीत्तेन हेतुना तस्मिन्ममेदृशो मोह उत्पेदे / तदाकर्णयन्तः साधव ऊचुः-महाराज ! यदेवं पुराऽस्माभितिं चेन्न तेन | मलमूत्रष्ठीवनादिन्यासमकारयाम / गुरव ऊचुः-भोः साधवः ! यद्यसौ साधूनां वैयावृत्यादिकं न कुर्यात्तहि कथमस्येष्टं सिध्येत् / अहो! पश्य 2 यदीदृशां श्रुतकेवलिमहापुरुषाणामपि सुतस्नेह ईदृशोऽजायत, तर्हि छद्मस्थजीवानां तदुद्गमो भवेदत्र किञ्चित्रम् ? अतो मोहः श्रेयोऽर्थिभिः सर्वथैव त्याज्यः। तस्मिंस्त्यक्ते सत्येव जीवाः सुखिनो जायन्ते / अन्यथाऽस्मिन्संसारेऽतिभ्रमन्ति मुखन्त्येव / अनेन प्रबन्धेन पितापुत्रयोरीदृशः स्नेह इति ज्ञातव्यम् / XXXX3
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy