SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ सूक्त- 1300 कामतः३ मुक्तावल्या // 132 // मालिनी-वृत्ते-निषध सगर-राया जे हरीभद्र चन्द्रा, तिम दशरथ राया जे प्रसन्ना मुनीन्द्रा। मनक जनक जे ते पुत्रना मोह धारथा, स्वसुत-हित करीने तेहना काज सारथा // 20 // अहो ! निषधस्य नृपेन्द्रस्य, तथा सगरचक्रवर्तिनो हरिभद्रमरि-हरिचन्द्रनृपयोर्दशरथस्य, प्रसन्नचन्द्रराजर्षिप्रमुखादेश्च स्वस्वपुत्रोपरि महान स्नेह आसीत् / चैवं मनकजनकस्य शय्यंभवसूरेविजकुलभूषणस्याऽसीमः पुत्रप्रेमासीत् / अतोऽमी सर्वे पुरुषोत्तमाः पुत्रमोहवशंगताः पुत्राणां यदिष्ट तदेव चक्रुः // 20 // अथ सगरचक्रवर्तिनः षष्टिसहस्रतत्पुत्राणाञ्च ११-कथाइह हि सगरचक्रवर्तिनः षष्टिसहस्रपुत्रा अभूवन तेऽष्टापदतीर्थस्य रक्षार्थमभितः परिखाकार गर्न कर्तु प्रावर्तन्त / तदालोक्य ज्वलनप्रभनामा नागदेवस्तानवादीत-भोः सागरा ! यूयमत्र महागत खनथ तेनाऽस्मद्भुवने रजांसि पतन्ति, अत एतत्कर्मणो विरमध्वम् / तदानीं तत्कथनान्ते तत्कृत्यं ते तत्यजुः / अथ कियत्कालानन्तरं पुनस्ते दध्युः-याऽस्माभिर्महता परिश्रमेण परिखा खनिता साप्यधुना जलं विना विनंक्ष्यतीति सा जलैराशु परिपूरणीया / यथा कोऽप्यस्य तीर्थराजस्याऽऽशातनां न कुर्यात् इत्यवधार्य कृतैकमतिकास्ते निजदण्डयोगतः सार्धद्वाषष्टियोजनानि यावत्तत्र स्वकृतमहागर्ने गङ्गाप्रवाइमानिन्यिरे / तेन वै कियन्तो नगरा देशाश्च जलनिमग्ना अभूवन् / अथ गंगाम्भसा भृतां तावतीं परिखामालोक्य तेन वारिणा बुडितप्राय निजभुवनश्चोद्वीक्ष्य सञ्जातकोपः स नागदेवो निजमनस्यवदत्-अहो ! मया पुरा वारिता अप्यमी न न्यवर्तन्त / समीहितश्च साधितमेव, अत एतान् BALAWAROLOROLARS 132 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy