________________ घमवर सूक्तमुक्तावली // 3 // तत्र तत्र मार्गे कष्टकानि कङ्करादीनि च यानि यानि क्लिष्टान्यासन् तत्सर्वाणि दूरे चिक्षिपतुः। तथा यत्र यत्र रजापुञ्जमासीत् तत्र तत्राऽम्बुना तौ सिषिचतुः / किञ्च श्रीमद्भगवच्चरणयुगलं धूलिधूसरं मा भवत्विति विचिन्तयन्तौ तौ तन्मार्ग सुरभिकुसुमपुजैराकीर्णञ्चक्राते / भगवतामुभयतस्तौ चामरयुगलं वीजयामासतुः / श्रीमदादीश्वरस्य भगवतो मार्गे गच्छतः पथि पुरतः कण्टकादिना भूशोधनं विदधाते / तथाऽवसरमासाद्य भक्तिविनयाऽवनतौ तौ प्रभु राज्याय प्रार्थयामासतुः / इत्थं श्रीमत्प्रभोः सङ्कक्ति विदधतोस्तयोः कियान कालो यातः। अथैकदा सम्प्राप्ते च कस्मिन्नपि प्रस्तावे श्रीमत्प्रभुवन्दनायै धरणेन्द्रस्तत्राऽऽगतवान् / स हि प्रभुसेवातत्परौ तौ बन्धू विलोक्य पप्रच्छ, युवां प्रभोरीदृशी भक्ति किमर्थ कुरुथः / तच्छ्रुत्वा ताववोचताम्-भो धरणेन्द्र ! आवां राज्याय भगवन्तमादिनाथं सेवावहे / तच्छ्रुत्वा धरणेन्द्रोऽवक्-भो भक्तप्रवरौ ! साम्प्रतमसौ नीरागतामाधत्ते / एनम्प्रभु राज्यं किमर्थ याचेथे ? तौ तदैवमाचक्षाते स्म-भो देवेन्द्र ! नूनमयमेव भगवान् आवाभ्याम्प्राज्यं राज्यं दाताऽस्ति / ततस्तयोरीशदृढ़तरविश्वासेन भगवद्भक्त्यसाधारण्येन च सन्तुष्टो देवस्ताभ्यामष्टचत्वारिंशत्सहस्रविद्या दत्तवान् / तथा तावुभौ भ्रातरौ वैताढ्यपर्वतीयाऽधिपती चक्रिवान् / तत्र वैताढ्यदक्षिणस्यां दिशि एकोनपञ्चाशनगराणि, तदुत्तरश्रेण्यामेकोनषष्टिग्रामा जनैराकीर्णा आसन् / धरणेन्द्रप्रदत्तविद्याभी राज्येन च तो भ्रातरौ विद्याधरौ बभूवतुः / तद्वंशपरम्पराऽपि विद्याधरतामेव लेमे / तयोरेवं प्रभुभक्तिः प्रत्यक्षं फलति स्म / इति सर्वैरेव भगवत आदीश्वरजिनेश्वरस्य सेवायां यतितव्यम् / यतो हि प्रभुसेवा भक्तेभ्यः किवि न प्रयच्छति ? अपि तु सांसारिकमतुलधनपुत्रादिसौख्यं पारलौकिक स्वराज्यसुखमप्यनन्तकालिकमक्षयं प्रसूते।