SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ भो लोकाः ! पश्यत इत्थमन्या अपि याः स्त्रियो विषयवासनां दुर्गतिप्रदां मत्वा त्यक्ष्यन्ति, ता अपिराजीव सुखिन्यो भविष्यन्ति प्रान्ते च सद्गतिमाप्स्यन्ति / पुनर्याः स्त्रियो दुश्चरित्रमाचरिष्यन्ति ता नूपुरपण्डितेवोभयलोके दुःखिन्यो भविष्यन्ति चान्ते दुर्गतिमाप्स्यन्ति / अथ सुलक्षणस्त्रीणां गुणानाह-शार्दूलविक्रीडित-वृत्तेरूडी रूपवती सुशील सुगुणी लावण्य अंगे लसे, लज्जालू प्रियवादिनी प्रियतणे चित्ते सदा जे वसे / लीला यौवन उल्लसे उरवसी जाणे नृलोके वसी, एवी पुण्य तणे पसाय लहिये रामा रमा सारसी // 13 // या स्त्री कुलीना भवति सा हि सर्वाङ्गानवद्या लज्जावती रूपवती शीलवती सद्गुणवती लावण्यलीलावती, मिष्टातिसत्यभाषिणी, भर्तृचित्तानुवर्तिनी देवीव सदा सुस्थिरयौवना लक्ष्मीरिव महापुण्यवता प्राप्यते / / 13 // ___ अथ कियतीनामुत्तमलक्षणवतानां कामिनीनां नामानि-दर्यन्ते उपजाति-वृत्ते सीता सुभद्रा नलराय-राणी, जे द्रौपदी शीलवती वखाणी / जे एहवी शीलगुणे सराणी, सुलक्षणा ते जगमाहि जाणी / / 14 // पुरा श्रीरामचन्द्रस्य पत्नी सीताऽभूत् / यामपहृत्य दशकन्धरः स्वगृहे षण्मासानस्थापयत् / तथापि नानाक्लेशं सहमानापि all निज शीलं न तत्याज / पुनर्लोकसमक्षं ज्वलत्खदिराऽङ्गारमयाग्निकुण्डे पतित्वाऽक्षताङ्गत्येत्र शीलप्रभावाज्जलादिव बहिराययो। लोकापवादमपाजहे / यथा वा सीतासुभद्रादमयन्त्यादयः प्रातःस्मरणीयतमाः कीर्तिमत्यः पुरात्र महासत्योऽभूवन् / या सुभद्रा
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy