SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ ल कामवर्ग मुक्तावल्यां // 128 // SERIENCREAKE अथ निष्कासितौ मार्गे चलन्तौ कुत्रचिन्मन्दिरे निशि तस्थतः। तत्र हस्तिपको निद्रितो जातो निशायां तत्र चौराः समाजग्मुः / अथ प्रतिमाये धूपं ददतं रूपेणातिसुन्दरं चौरनायकं विलोक्य तदनुरागिणीभूय राज्ञी तमेवमवादीत-हे मच्चित्तमोहन! मां हित्वा मागाः। अहमपि त्वया सहैष्यामि चौरोऽवदत-हे सुन्दरि ! येन सह त्वमत्राऽऽगाः, स यद्युत्थास्यति तदा किं स्यादावयोरत्र प्राणभीतिरापतिष्यति / सा दध्यौ असौ तस्करः सधनः प्रतीयते, हस्तिपकस्त निर्धनः। किमनेनेति विमृश्य चौराधीशेन तमजीघनत्स मृत्वा व्यन्तरोऽभवत् / अथ शृङ्गारसज्जितां राज्ञी शीलभ्रष्टां दुष्टां ज्ञात्वा चौराधीशो दध्यौ-इयमसती वर्तते। या हि सार्धमागतं स्वपति जारं वा घातितक्ती को जाने ग्रे ममापि किङ्करिष्यति ? अत एषा त्याज्येति विमृश्य तामुवाच-हे प्रिये ! एषागाधजला नदी वर्तते / अतस्तवाङ्गे यानि यान्याभरणादीनि सन्ति तानि सर्वाण्येकत्र वस्त्रखण्डे ग्रन्थि बध्वा मह्यं देहि / तत्तीा परतीरे पूर्व नयामि पश्चादागत्य त्वामप्युत्तारयिष्यामि / अथ मुग्धा हतभाग्या सा निजवस्त्राभरणादीनां ग्रन्थिं पध्वा तस्मा अदात् / सोऽपि तदीयं सर्व लात्वा नर्दी तीग्रेि चचाल / तन्मार्ग प्रतीक्षमाणा किङ्कर्तव्यतामूढा सती सा तत्रैव तस्थौ। तत्रावसरे व्यन्तरीभूतो हस्तिपकजीवः शृगालमीनौ विकृतवान् / पुनर्यावत्स श्रृगालो मीनमशितुमैच्छत् तावत्तत्र तेनैव व्यन्तरेण विकृतः कश्चिद् गृध्रपक्षी व्योम्नः समेत्य मीनमादाय गगनमगात् / शृगालो विच्छायवदनः पश्यन्नेव तस्थौ। अस्मिन्नवसरे तद्विलोकमाना राज्ञी तमुपहस्य जगाद / अरे निर्बुद्धे ! गृध्रोऽपि त्वामवञ्चत्तच्छ्रुत्वा शृगालस्तामवदत्-भो राज्ञि ! ममैकमेव गतं त्वं तु त्रिभिर्वश्चितासि / तदपश्यन्ती मां कि दूपयसि चोपहससि तदा रायचे हे शृगाल! वं तिर्यग्भूत्वा कथमेतद्वेत्सि ? तत्रावसरे मार्गे जातं सर्व वृत्तान्तं स तामवोचत / ततः सा राज्ञी प्रतिबुद्धा विषयवासनां तत्याज, तेन चिरं सा सुखमन्वभूत् / 4 // 128 // a
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy