________________ कामवर्गः३ सकमुक्तावल्या // 127 // मवतां समक्षं देवीचरणाधः प्रविशामि। यदि मे शीलं सत्यमेव शील भ्रष्टं पातर्हि प्रत्यक्षफलं देयं देवी मां स्वपादतले निपीलयिष्यति / यद्य- तेन दिव्येन निदोषा स्यां तहि श्वशुरो मे सरेव दण्डनीयः / अथ धूर्ता सा तथोच्चार्य देवीपादतलमागत्य सुखेन बहिर्भूय तस्थौ। ततो लोका जर्जर धिक्कुर्वन्तस्ता प्रशशंसुः / यथा-अहो! धन्येयं शीलशालिन्यस्ति यया मिथ्यापवादेऽपीदृशं दिव्यमकरोत् / तां स्तुवन्तः सर्वे लोकाः स्वस्थानमापुस्तस्या अपि लोके कीति: प्रससार / इतश्च तहःखेन जर्जरस्य स्वमेऽपि निद्रा वैरिणी जाता। कियकालानन्तरमसौ जर्जरो दिवानिशं जाग]व, कदापि न शेते / इति निशम्य श्रेणिको नृपेन्द्रस्तं निजकोषागारे रक्षकत्वेन नियुक्तवान् / अथ स कोषालये दिवानिशं सर्वतः परिभ्राम्यन् रक्षनासीत् / अर्थकस्यां रात्रौ कस्याश्चिद्राजपत्न्या दुश्चरित्रं तेन वीक्षितम् / तदालोक्थ तदैव स बुबुधे, चिन्तामपि तत्याज / अहो ! कामस्य बलीयस्त्वं यदर्दिता विश्वभर्तुः सार्वभौमस्य महाप्रतापिनोऽतिबलवतोऽपि भार्या नीचजारमासेवते / तर्हि मादृशां गृहे स्त्रीजातीनां का गणना ? अथ त्यक्तचिन्तस्य जर्जरस्य तदैव बुभुक्षा पिपासा सुषुप्सादयः समुत्पेदिरे / मासादलब्धनिद्रो जर्जरस्तथा सुष्वाप यथा मोक्षार्थी परब्रह्मणि संलीनो भवति / तदङ्गे कुत्रापि प्राणानां सञ्चारण नाऽऽसीत् / यथा प्रारब्धमासिकपाण्मासिकादिवतावसाने लोको यथेष्टं भोजनशयनादिकृत्यं विधत्ते। तथैव सोऽपि वृद्धः पश्यतोहरः पुत्रवध्वा दुश्चेष्टां पश्यन् विहितपाण्मासिकजागरणरूपाभिग्रहो राजदाराकुचेष्टितं विलोक्य तदभिग्रहसमाप्ताविवातो गतचिन्तो निदद्रौ। ततो निशान्ते नगरचर्चा वीक्ष्य परावर्तमानो राजा तं जर्जरं कोष्ठागारे मृतमिव प्रसुप्तं व्यलोकत / अथ प्रभाते प्रधानमपृच्छत्| भोः प्रधान ! जर्जरः कदापि न शेते, इत्युक्तं पुरा भवद्भिः, परमहं निशि तं मृतप्रायमिव सुप्तं दृष्ट्वान् / किङ्कारण यत्सोऽधतावत्कालं नोत्थितवान सुप्त एवाऽस्ति / अथ सप्रधानो राजा तत्रागत्य तथैव सुप्तं तमालोकत, ततो नृपादिष्टो मंत्री जागृतिकृते C 7+