________________ सूक्तमुक्कावल्यां // 126 // अथ जारपल्यङ्के शयानाया नूपुरपण्डितायाः ८-कथा काममः३ यथा राजगृहनगरे जर्जरनामा स्वर्णकारोऽस्ति / तस्बैकः पुत्रोऽस्ति स पित्रा परिणायितः परमेतस्य पत्नी व्यभिचारिणीशिरोमणिरस्ति / अथैकस्यां रात्रौ भारं गृहान्तः सुतं मुक्त्वा स्थलान्तरे दिव्यां शय्यां विधाय जारमाहूय तेन सह रेमे / तदेतदनाचारमालोकमानो जर्जरस्तां जारश्च निद्रितं वीक्ष्य तवाऽऽगत्य बघा नपुरमादाय पुनः स्वस्थानमेत्य सुष्वाप / नूपुरश्च शय्योपरि न्यस्तवान् , अथ जागृता सा चरणे नुपुरमपश्यन्ती व्यचिन्तयत् / यदेतत् श्वशुरस्यैव कृत्यं नान्यस्य नूनमसौ प्रभाते लोकान् वदिष्यति मे दुश्चरित्रम् / अतो मयाप्येतत्फलं तस्य दर्शनीयमित्यवधार्य जारमुत्थाप्य निजालयमप्रैषीत, स्वयं भर्तुः पार्श्वमागत्य सुष्वाप / अथ किञ्चिद्विरम्य पतिमुत्थाप्य, यत्र शयने जारेण सह पुरा सुप्ताऽऽसीत्तत्रैव शयने समागत्य मा सह पुनः शिश्ये, पतिरचिरादेव निदद्रौ। ततः सा सुप्तं तमवगत्य बुम्बारवं व्यधत्त-यथा हे नाथ ! द्रुतमुत्तिष्ठोत्तिष्ठ / पश्यानेन निरपेण तव पित्रा लज्जास्थानकेऽप्यत्र समागत्य मदीयं नूपुरमपजडू / अथ सहसैव समुत्थाय झटिति पितुः पार्श्वमागत्य तं ताडितुं लनोऽवदच्च-अरे पापिष्ठ ! निर्लज्ज ! तत्र गत्वा पुत्रवधूचरणं स्पृशतस्ते मनाऽऽगपि लज्जा नाऽऽाता ! धिक त्वां धिक् त्वां ! तदा पित्रोक्तं रे पुत्र ! त्वं तदानीं नासीरन्यः कोऽप्यासीत् / पुनर्जगाद पुत्रः-रे दुर्बुद्धे ! अन्यः कोऽपि नाऽऽसीदनमेवाऽऽसम् / इत्थं पितापुत्रयोविवादे प्रवर्धमाने बहवो लोका: समीपस्थास्तत्राजाताः / तत्स्वरूपं ज्ञात्वा सर्वाः स्त्रियः सर्वे पुरुषाश्च पितर जर्जरमेव निनिन्दुः / असौ प्रमत्तो जात इति जगदुश्च सर्वे / सेन स जर्जरो विचारसागरे ममज्ज / अहो! किं जातं मया तु सर्व तच्चरित्रं प्रत्यक्षीकृतं तथापि सर्वे मदुक्तमसत्यमेव मन्यन्ते निन्द- 12 // 126 //