SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ अथ यशोधरनृपधातुकीनयनावल्याः ७-प्रवन्धःतथाहि-यशोधरक्षितिपस्य नयनावली राज्ञी केनचिद् जारेण विषयासक्ताऽऽसीत् / म; सह स्वैरं भोगं भुञ्जानापि तृप्तिमनधिगच्छन्ती निशि कस्यचनाऽश्वपालनायकस्यान्तिकं गत्वा स्वैरं रममाणासीत् / प्रतिरात्रमित्थमाचरन्ती सुखेन कालं व्यत्येति। अथैकस्यां रात्रौ नृपं सुप्तं विदित्वा सा जारान्तिकमागत्य तेन सह रन्त्वा पुनर्नृपान्तिकमामात् / तदन्तरे च कश्चन वणिपुत्रश्चौर्यव्यसनी तेनैव मार्गेण राजसौधं प्रविश्य नृपपल्यकाधस्तस्थौ / अथ जागृतो राजा तामपृच्छत्-अयि राज्ञि ! त्वमधुना कुत्राऽऽसी: 1 साफवक्-नाथ ! लघुबाधां निवर्तयितुं गताऽऽसम् / पुनर्निद्रिते नृपे सा दध्यौ-अद्य मे दुश्चरित्रं राजा विदितवान् / इदानीं किमपि नोक्तं प्रमे नूनमसौ सर्व वदिष्यति / अतोऽधुनैव मया तत्प्रतीकारो विधेयः / यथा लोके निर्दोषा भविष्यामि निर्बाधं भोगमपि तेन कामुकेन सह करिष्यामि / इति विचिन्त्य तदैव सा दुष्टा सुप्तं राजानं गलपाशबन्धनेन जघान / मृते च भर्तरि सा तारस्वरेण बाढं सरोद हा दैव ! त्वमधुना मामनाथां कथमकृथाः 1 मया भवान्तरे कि पापमकारि। येनेह जन्मनि दुःखोदधौ पतितास्मि / | इत्थं नानाविधं सकरुणं विलपन्तीमुरः शिरश्च ताडयन्तीमालोक्य रक्षकाः प्रधानादयश्च तत्राऽऽजग्मुः। किमभूदिति पृष्टे साध्वक्हा! हा!! हा!!! अकस्मादेव मे प्राणेश्वरो ममार / ततो मन्त्रिप्रमुखाः सर्वे लोका राजानं श्मशानभूमावानीयाsग्निना संश्चक्रुः / अथैतस्या घोरं पापकृत्यं शय्याधःस्थेन चौरेण वणिक्पुत्रेण विलोकितम् / तमपि बहुतरधनप्रदानेन संतोष्य, त्वमेतद्वदिष्यसि चेन्मारयिष्यामीति सत्रासं शिक्षा दचा च मुक्तवती / अतो वच्मि हे लोकाः! सर्वस्त्रीषु कदापि विश्वासो नैव कर्त्तव्यः। वाचानेकदोषसद्भावाद् दुष्टतरा एव भवन्ति /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy