SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ कामवगी सक्तमुकावल्यां // 125 // XXBE%9AXXXBBCCE%E* तथाहि-तत्प्रेरिता कपिला राजानमेवं व्यजिज्ञपत-हे स्वामिन् ! अद्यान्तःपुरे मम स्वामिन्या आवासे सहसैव सुदर्शनश्रेष्ठी समागात / ततश्च मम स्वामिन्या अभयाराज्याः शीलं खण्डयितुमियेष / राजन् ! महता क्लेशेन मयाऽद्य स निष्कासितः / त्वयि शासति साधारणस्यापि गृहमागत्य कोऽपि कदाचिदप्येवं नाचरति / तेन तु तवैव प्रेयस्याः सुशीलाया आलयं प्रविश्येदृशमनार्यमाचरितम् / अतस्तस्मै योग्यं दण्डं देहि नो चेन्मम स्वामिनी जीवितमेव त्यक्ष्यति / अथैतदाकर्ण्य कोपाग्निज्वलितो नृपस्तस्य शूलारोपणमादिशत्। ततो नृपादेशात्तादृशा मटाः सुदर्शनं तत्स्थाने बलादानीय शूलिकायामारोपयामासुः, परन्तु तदखण्डशीलप्रभावतः शासनदेवता तदैव शूलिकां त्रोटयित्वा स्वर्णमयसिंहासनश्चक्रे / अथैतदद्भुतमाकर्ण्य सपौरो राजा तत्रागात्सर्वे च तमालोक्य विस्मिता जाताः / अथ सुदर्शनं गजारूढं विधाय नृत्यगीतादिमहोत्सवेन नगरान्तः प्रावेशयत् / नृपस्तामभयां राहीं | भ्रष्टशीला विज्ञाय देशतो निष्कासयामास / अतो वच्मि हे स्त्रियः ! भवत्यस्तथा माभूवन / वसंततिलका-वृत्ते—मारयो प्रदेशि सुरिकांत विषावलीयें, राजा यशोधर हण्यो नयनावलायें / दुःखी करचो श्वशुर नूपुरपण्डितायें, दोखी त्रिया इम भणी इण दोषतायें // 12 // विषयसुखलोभादेव पुरा काचित्मरिकान्ता राज्ञी निजभर्तारं प्रदेशिराज गरलं प्रदाय जिहिस / तथा नयनावल्यपि राज्ञी विषयसुखलोभाऽऽक्रान्ता निजप्राणेश्वरं यशोधरं नृपं गले दृढं पाशं बध्वावधीत / काचिदेका नूपुरविदग्धा स्वर्णकारस्त्री स्वकीयदुश्चरित्रमपोतुं पति छलयित्वा श्वशुरं भृशं दुःखिनमकरोत् / हे स्त्रिय ! ईदृशाऽनार्याचरणेन सर्वाः स्त्रियो दृष्यन्ते / अतो भवतीभिः सर्वथा दुराचारं तत्त्याज्यमेव // 12 // 6 // 125 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy