SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ CkAo. अथ तासामेव दोपमाह यथा-काचिच्छुकमालिकाभिधाना दुष्टा स्त्री सरलस्नेहप्रकृतिकं निजवल्लभमपि जितशत्रुनृपं गङ्गाम्भसि न्यपातयत् एषा कथा विस्तरतः पुरात्र कीर्तितास्ति, तथा सुदर्शनाभिधानः प्रख्यातः श्रेष्ठी स्वशीलगुणपाली सहसैवाऽभयाख्यया राझ्या मुधा कलङ्कितोऽभूत् // 11 // अथ सुदर्शनश्रेष्ठिनमभया राज्ञी कलङ्कयामास, तयोः ६-कथापुरा किल पाटलीपुरनगरे सुदर्शनाभिधानः श्रेष्ठी निवसति स्म / सोऽतीवसुन्दरः सुशीलश्चासीत्तमेकदाऽभयाख्या राज्ञी विलोक्य तस्मिन् रागवती जाता। तत एकदा केनापि व्याजेन दास्या स्वान्तिके तमानायितवती। तमागतं वीक्ष्य मन्दं मन्दं हसन्ती भृशं कटाक्षयन्ती नानाहावभावं प्रकाशयन्ती मदनविलासमभ्यर्थयत / तथाहि-हे नाथ ! मामधुना भृशं बाधते मदनस्त्वदीयरूपतारुण्यविलोकनादतो मया सह यथेष्टं रमस्व / इत्थं तत्प्रार्थनं निशम्य निजशीलरक्षायै स तामवदीत-अयि राज्ञि ! तवोक्तं सत्यमस्ति परं किं कुर्याम् ? पौरुषमेव नास्ति मयि, तदभावान्मदनेऽपि चैतन्यं न जायते / अथैवमाकर्ण्य सा तं विससर्ज / ततः कियदिनानन्तरं सा राजी गवाक्षे स्थिता पथि तुरङ्गारूढान्देवकुमारानिव गच्छतस्तारुण्यादिगुणशालिनः षट् पुरुषानद्राक्षीत् / तदानीं तत्पार्श्वे प्रधानभार्या कपिलाभिधानादासी च स्थितासीत्, अथ राज्ञी पृष्टवती-अपि वयस्ये ! एते व्रजन्तः कस्य पुत्रा सन्ति ? दास्यूचे-स्वामिनि ! अमी षट् कुमाराः सुदर्शनश्रेष्ठिनः सन्ति / अथैवमाह राज्ञी-मो दासि ! तस्य पौरुषहीनस्य पट्सुताः कथमभूवन् ? कपिला जगाद हे स्वामिनि ! स धूतोंऽतस्तथा कथयित्वा त्वां कामुकीमवश्चयत् / पौरुषं विना तस्य देहलावण्यादिकं कथं संभाव्यते ? तदनु सा राशी तदुपरि रुष्टा सती दास्या विचार्य मुधैव सुदर्शनस्य कलङ्कमारोपितवती /
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy