________________ सक्त भ्यामुत्तममध्यमयोर्महदन्तरं विद्यते / यथा हि गुणवामिजगुणेनैव सर्वत्रोपलक्ष्यते निर्गुणस्तु पितृगुणनामादिनैव ज्ञायते / तथैव 8 कामवर्गः 3 मुक्कावल्यां गुणी निजगुणतो, निर्गुणी दोषतः सर्वत्र प्रख्यातिमुपैति // 6 // // 123 // अथ पुरुषगुणविषये-शार्दूलविक्रीडित-वृत्तम्_जे नित्ये गुणवृन्द ले परतणा दोषो न जे दाखवे, जे विश्वे उपगारि ने उपगरे वाणी सुधा जे लवे। पूरा पूनम चन्द्र जेम सुगुणा जे धीर मेरू समा, जे गर्भार सदा सुसायर जिसा ते मानवा उत्तमा।।७॥ यो हि सदैव परेषां गुणग्राहको भवति, दोषांश्च न ख्यापयति, जगदुपकरोति, परकृतमुपकारं सदैव मनुते, तथा सुधामिव लं मधुरां सत्यां वाणी वदति, कदाचिदसत्यमप्रियं न भाषते, तथा शारदपार्वणशर्वरीश इव सकलसद्गुणवान मेरुवदचलः, समुद्र इव BI गम्भीरः, ईदृशो जन उत्तमः कीर्त्यते अत एव लोकैरुत्तमैरिति भाव्यम् // 7 // अथ परकीयस्तोकमपि गुणमुदाहरतस्तथा दोषमपलपतः श्रीकृष्णस्य ५-कथाअथैकदा सौधर्मेन्द्र: सभासीनः श्रीकृष्णं समस्तावीत-मो भोः सम्याः ! साम्प्रतं मर्त्यलोके श्रीकृष्ण इव गुणग्राही कोऽप्यन्यो नास्तीति / तदसहमानः कोऽपि मिथ्यात्वी देवस्तं परीक्षितुं मृत्युलोकमागात् / तत्रावसरे श्रीकृष्णो स्थवाटिकातः परावर्तमानः स्वनगरमागच्छन्नासीन्मार्गे / अथैतदवसरे स एव मिथ्यादृष्टिदेवश्चलत्कोटिकीटाऽऽकीर्णस्यातिदुर्गन्धमयस्य मृतस्य शुनो रूपं विधाय मध्येमार्ग तस्थिवान् / तदीयदुर्गन्धियोगाद्गजतुरगादयो विवेकविकलाः पशवोऽपि तन्मार्गेण गन्तुं न 18 // 123 //