________________ * * वं साधु त्वा किमनार्य वचनं जल्पसि / त्वमित्थं जल्पन कथं न लजसे ? तक सुज्ञानं क गतं यदेवं ब्रूषे / एप-अगन्धनकुलजातः सोऽपि स्खेन वान्तं विषं निजप्राणातिपातेऽपि कदापि नाऽनाति / वन्तु संयमी भूयोऽपि सत्कुलजातस्त्वक्तमपि विषयहालाहलमधुना वाञ्छसि तत्सत्कुलोत्पन्नस्य तब नैव घटते / एवं कृते कुलमपि मलिनं स्यात् चारित्रञ्च नश्यति / तनाशात्तव नारकीगति र भविष्यति, अत एवं मा कृथाः / अथ सतीमुखोद्गीर्णेदृग्वचनश्रवणतो रथनेमिः प्रतिबुद्धो जातः / दध्यौ चैवं मनसि अहो ! धन्येयं सतीशिरोमणिर्यया सत्यपि मदहेतौ रूपलावण्यतारुण्ये स्मरो जितः, अस्यामनार्य बन्तं मां धिग् यदहं मातृसमानां भ्रातृजायामपि भोक्तुमैच्छम् / तदनु कृतपश्चात्तापः स भगवदन्तिकं गत्वा तत्प्रायश्चित्तं लात्वा पुनश्चारित्रवान भूत्वा भृशं तपस्यन्सद्गतिमाप / ईदृशां महतामपि कन्दर्पवश्यत्वमभूत्तर्हि पामरजनानां का वार्ता ? अतः कामो दूरतस्त्यक्तव्यः। यो हितं जयति स एव जीवः स्वजन्म सफलीकरोति पुनरक्षयसुखमप्यधिगच्छति / तथैवैकदा वीरभगवतः सङ्घाटकीयाः साधवश्वेल्लगाराज्ञी वीक्ष्य चलचित्ता अभवमित्यादिकथा ग्रन्थान्तरादवगन्तव्या सद्भिभवद्भिः / अथ २-पुरुषगुणदोषोझवनविषये-रथोडता-वृत्तम्उत्तमा पण नरा न सम्भवे, मध्यमा तिमन योषिता हुवे / एह उत्तमिक मध्यमी पणो / बेहु माहि गुण दोष नो गिणो // 6 // ... इह जोके ये जीवाः स्वगुणैः शोभन्ते त उत्तमा ये च पितुर्गुणैरुपलक्ष्यन्ते ते मध्यमाः कथ्यन्ते / अनयोरिव गुणदोषा