SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावल्यां // 122 // SARNER नलं राज्ये कूबर यौवराज्ये चन्यस्य दीक्षा ललौ। तदनु नलं राजानं जूते जित्वा कूबरो नृपोऽभवत् / नलस्तु दमयन्त्या सह वनवास्यभूत् दैवयोगान्मार्गे दमयन्तीमपि जहौ / स्वयन्तु कुब्जत्वमगच्छन्कर्मयोगाद्दमयन्त्या अपि मुधा चौर्याऽपवादोऽलगत् / क्रमशस्तस्याः पुनः स्वयम्बराऽवसरे परस्परं सम्मेलनमभूद्राज्यमप्याप्तवान् / तदनु चिरं राज्यसुखमनुभूय सञ्जातवैराग्यवशात्स नलः प्रत्रवाज दमयन्त्यपि संयमिनी जज्ञे / उभावपि संयम पालयन्तौ पृथक् पृथक विचरतुः / अथैकदा दमयन्ती साधी विलोक्य नलराजर्षेश्चित्तं कामवशंवदमजायत / तज्ज्ञात्वा प्रतिबोध्य सा दमयन्ती तस्य चारित्रस्थैर्य व्यधात् / ___ अथ राजीमती कामयमानस्य समुज्झितोत्सर्गध्यानस्य रथनेमिमुनेः ४-प्रबन्धःयथैकदा श्रीनेमिनाथस्य भगवतो बन्धू स्थनेमिनामा नेमिप्रभोर्देशनातः प्रतिबोधमासाद्य दीक्षितोऽभवत् / ततःप्रभृति पर्वतगुहायां कायोत्सर्गध्यानेऽतिष्ठन् / अथैकदा वर्षौ भगवन्तं नेमिनाथमभिवन्द्य ततः परावर्तमाना साधी राजीमती मार्गे वर्षात आर्द्रवसना जाता तानि च शुष्कयितुं सा साध्वीः गुहान्तर्गता। तत्रार्द्रवसनानि देहादुत्तार्य शुष्कयितुं लग्ना। तत्रावसरे राजीमत्याश्चारुतरमङ्गोपाङ्गमनावृतं निरीक्ष्य कायोत्सर्गध्यानस्थोऽपि रथनेमिमुनिः कामशरजालतो विभिन्न गात्रो जातः / शुभध्यानन्तु सर्वथैव विसस्मार। केवलमशुभध्यानकर्दमे निमग्नोऽभवद् विषयमदिरामत्तः स गतत्रपस्तां मुखतः कामक्रीडामयाचिष्ट / तथाहि-अयि राजीमति ! तवेदशं यौवनं वयोरूपादिकमतिसुन्दरं वर्तते / तसं मुधा किंगमयसि ? शीघ्रमेहि मया सह यथेष्टं स्मस्व / येनाऽऽत्रयोरिदं जन्म सफलीभविष्यति, आकस्मिकमीदृशं त्रपारहितं तद्वचः श्रुत्वा सा राजीमती निजमङ्गोपाङ्गं सम्पक् संगोप्य ततस्त्वां धिगित्यादिभाषणपूर्व कियदपि काकवादिदृष्टान्तं तमदर्शयत् / प्रान्ते चैवं तं निन्दन्ती जगाद / भो अधीर !
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy