SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ सूक्त कामक:३ मुक्तावल्या॥ 120 // "केचित्प्रचण्डगजराजविनाशदक्षाः, कन्दर्पदर्पदलने विरला मनुष्याः। श्रीस्थूलिभद्रमुनिराजमुखा हि सन्ति, त्रैलोक्यजेतृमदनप्रशमेऽतिदक्षाः" // 1 // किञ्च-मदनवशङ्गतो नन्दिषेणो द्वादशवर्षाणि गणिकालये तिष्ठन् तया सह विषयसुखं भुञ्जान आसीत्ततः संयमे दार्थमाप्तन् / मदनजेतार एव जना आत्मश्रेयः साधयन्ति / पुरा कामपारतव्यं नीतः पश्चाद्विनिर्जितस्मरो नन्दिषेण बात्मसाधनमकरोदत उपयुक्ततया तत्कथाम लिख्यते अथ कामभोगे तथा तत्त्यागोपरि नंदिषेणमुनेः १-कथानकम्इहैव मगधदेशे श्रेणिको नाम राजास्ति तदीयो नन्दिषेणनामा कुमारो विद्यते / स च स्वानुरूपाभिः पञ्चशतीमिः कन्यामिः पित्रा परिणायितः सुखमनुभवन्नस्ति / अथैकदा तत्र नगरे कुत्रचिदुपवने गुणशीलनाम्नि चैत्ये श्रीमहावीरप्रभुरागतः / तत्र भुवनपतिज्यन्तरज्योतिष्कवैमानिकर्देवैस्तदीयसमवसरणं चक्रे, तच्च पृथ्वीतः सार्धक्रोशद्वयोमतं जज्ञे / तदारोढुं चतुर्दिक्षु कृतहस्तान्तरालानि चाशीतिसहस्रसोपानानि व्यधुः / तत्र च पूर्वस्यां दिशि सिंहासनोपरि 'नमो तित्यस्स' इत्युदीर्य श्रीवीरप्रभुर्विरराज / तथाऽवशिष्टासु दिक्षु ते देवाः सिंहासनोपरि प्रभोमूर्तिमतिष्ठिपन् / तत्रावसरे भगवान् वीरो देशनां ददते, सा च चतुविधदानशीलतपोभावनारूपा मुक्तिमार्गस्य द्वारमिव भाति स्म, एतत्स्वरूपं वनपालः श्रेणिकराजाय निवेदितवान् / तदाहृष्टो राजा तस्मै बहुदागमदात् / प्रमोराममनहर्षतो राज्ञः सकलानि रोमकूपानि समुत्तस्थुः / अथ तदैव क्षोणीपतिनन्दिपेणतनयेन तथाऽमय
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy