________________ सूक मुक्काक्ल्या शकुनेन गृहानिर्गत्य तत्र क्षेत्रं ष्टुं लग्नाः, तदा तेषामग्रे तेन स्वल्पं भवत्विति मुहुरुच्चैरजल्पत् / ततः सर्वे कर्षका मिलित्वा भृशं तम मर्थवर्ग:२ ताडयन् / अथ बहुप्रार्थितास्ते तं मुमुचुः कथितञ्चारे मतिहीन ! एवं मा वद सर्वत्र बहु भवत्वित्येव वक्तव्यम् / अथैतत्पदं मुहुः स्मरन्बग्रे गत्वा कुतश्चिद् ग्रामादहिः शवमादाय समागच्छतां पुंसामग्रे बहु भवतु बहु भवत्विति तेनोक्तम् / तदाकर्ण्य ते शववाहकास्तमतितरां ताडयामासुः / ततो मूर्ख ज्ञात्वाऽत्यजन्नवदंश्च-रे मूर्ख ! एवं मा भवतु कदापि कस्याऽपीति जल्प / अथ ततोऽग्रे कश्चन नगरमागतः स मूर्खः कस्यचन श्रेष्ठिनः पुत्रस्य विवाहोत्सवे धवलमाङ्गलिकगीतं वाद्यं नृत्यादिकं प्रारब्धमालोक्य तत्र स्थितानां लोकानां पुरत एवं मा भवत्विति महता स्वरेणाऽनेकधा बभाषे / तदमङ्गलमुच्चरन्तं तं द्वित्रा जना मिलित्वा यथेच्छं कुट्टितुं लगाः / अथ तदीयदीनवचनेन सदयास्ते मूर्योऽयमिति ज्ञात्वा तत्यजुः शिक्षितच रे जड ! सदा सर्वेषामेवमस्त्विति बेहि / अथ ततो निर्गत्य कस्यचिद्राज्ञो द्वारि समेत्य तस्थौ / तस्मिन्नवसरेऽन्तःपुरे परस्परं कलहायमानौ राजानावास्ताम् / तौ तमेवं सदा भवत्विति भाषमाणं वीक्षाश्चक्राते / तदैव कुपितो राजा केनचित्पुंसा तं निजान्तिकमानाय्य ताडयामास / पश्चात्मुखंधिया जातानुकम्पया राज्ञा मोचितः शिक्षितश्च-रे भाग्यहीन ! कुत्रापि गत्वा त्वया मौनमाश्रित्य स्थातव्यम् / यदा कोऽपि किञ्चित्पृच्छेत्तदा शनैः शनैः किञ्चिनिगद्यमिति शिक्षयित्वा सा राझी स्वपार्श्वे तं नियुक्तवती / अथैकदान्तःपुरेऽनौ लग्ने झटिति तच्छम्नाय राजानं तद्वक्तुं सा तं प्राहिणोत् / स तु सभामागत्य तूष्णीमतिष्ठत, कियत्कालानन्तरं राज्ञा पृष्टः स शनैः शनैरतत्स्वरूपं कर्णे जगाद / तच्छ्रत्वा कुपितो राजा तमाख्यत्-अरे मूर्ख ! गृहे दह्यमानेवाऽऽगत्य तदैवोचैः कथं न जगदिथ ? रजांसि कथं नानौ चिक्षेपिथ / अतःपरं त्वया धूने दृष्टे सति सर्वत्र धूलिः प्रक्षेप्तव्या / इत्थं तस्मै शिक्षा दि॥११७॥