________________ मईवर्ग:२ मुक्तावल्या-४ // 116 // BUSINESS नावाशिषत् / अथैकदा पार्थस्तत्रागत्य तमपश्यत्तेन चमत्कृतः पार्थवेतसि दध्यौ-अहो ! केनैतानि तरुपत्राणि सकलानि शरैद्धिानि ? मत्परोक्षे द्रोणाचार्यः कमप्यन्यमशिक्षयत्किमेवं यावदशङ्कत तावत्तत्र स भिल्ल एवाऽऽगतस्तेन पृष्टः-किम्भोः ! त्वयैतानि दलानि विद्धानि ? वनेचरोवदन्मयैव / पार्थः पुनरपृच्छत्-भोः ! तव गुरुः कोऽस्ति तेनोक्त-द्रोणाचार्यः। अथ सोऽ. र्जुनस्तं मिल्लं द्रोणान्तिकमनयत्कथितञ्च-मो गुरो ! त्वमेतस्य भिल्लस्य धनुर्विद्यामशिक्षयः किम् ? सोऽवक्-हे पार्थ ! अहमेनं किमपि नाशिक्षयम् / जानाम्पपि न कोऽस्तीति तदाऽर्जुनोऽपृच्छत्-भोः सत्यं वद, तवैतत्कलाशिक्षकः कोऽस्तीति ? तेनोक्त-हे अर्जुन ! अलीकमहं न वदामि / नूनं ममैष द्रोणाचार्य एवं शिक्षकोऽस्ति / तदार्जुनो द्रोणमवदत-गुरो ! शृणोषि ? असौ किम्यक्तीति ? अथैतदाकर्ण्य भिल्लमुद्दिश्य द्रोणोऽवदत्-अरे नीच ! मुधा मनाम किं गृह्णासि ? मिल्लोऽवदद्यदि मिथ्या मनुषे तदाऽगच्छ, द्रोणगुरुं दर्शयामि / अथ तेन सह द्रोणार्जुनौ तत्रागच्छताम् / तत्र तौ भिल्लोऽवदद्-भो ! यस्मादहमेनां कलामशिक्षे, तं द्रोणाचार्य युवां पश्यतम् / तन्मूर्तिमालोक्य तो मिथोऽवोचताम्-नूनमेष श्रद्धालुरस्ति / भक्तियोगादेवाऽस्येदशी कला जाता / तत्राऽवसरे द्रोणोऽवदद्-भोः पार्थ / अत्र को मे दोषः 1 अनेन तु गुरुभक्ति विधाय स्वयमेव धनुर्विद्यानेपुण्यमवाप्तं / तदनु तो स्वस्थानमाजग्मतुः / इत्थमन्योऽपि यः सत्यया गुरुभक्त्या कलां शिक्षिष्यते, तस्याऽपि विद्यावश्यं फलिष्यति / अथ २०-मूर्खता-विषयेबचन रस न भेदे मूर्खवार्ता न वेदे, तिम कुवचन खेदे तेहने सीख जे दे / नृप शिर रज नाखी जेम मखें वीने / हित कहत हणी ज्यूं वानरे सुग्रहीने // 33 // M // 116 //