________________ - अथ १९-कला-विषयेचतर कर कलानो संग्रहो सौख्यकारी, इण गुण जिण लाधी द्रौण सम्पत्ति सारी / त्रिपुरविजयकर्ता जे कलाने प्रसंगे, हिमकर मन रंगे ले धरयो उत्तमाङ्गे // 32 // हे प्राणिनः / सुखेच्छा चेत्कलाविज्ञानं कुरुत / हे चतुर ! इह हि कलावतां प्राणिनामसीमानि सुखानि सम्पदश्च सकला अनायासेन जायन्ते / पश्यत-द्रोणाचार्यस्य कलाविज्ञानयोगात्कीदृशी सम्पत्तिर्जाता कियती च तदीया सकीर्तिलों के प्रथितेति / तथा महादेवः पुरा कलायोगाच्छिरसि वारि दधत्रिपुर व्यजेष्ट / एवं जैनेतरग्रन्थेऽस्ति तत एव समस्तं तद् बोधनीयम् // 32 // ___अथ कलावद्रोणाचार्यार्जुनभिल्लानां १९-कथानकम्यथा-कलावान द्रोणाचार्यः पार्थ वाणावलीकलामशेषामशिक्षयत् / मादृशो धनुर्धरोऽन्यः कोऽपि मास्त्विति धियाऽर्जुनो गुरुमवोचत-हे गुरो ! मामिवान्यं कमपि धनुर्विद्यां मा शिक्षयस्तेनापि तत्प्रतिपन्नम् / अन्यदा कश्चिद्भिल्ल समागत्य द्रोणगुरुं महतादरेणावोचत / हे गुरो! मामपि धनुर्विद्यां शिक्षय द्रोणोऽवक्-त्वं नीचोऽसि ततोऽहं त्वां न शिक्षयामि / तदनु स कुत्रचित्पर्वते गत्वा मृण्मयीं द्रोणाचार्यप्रतिमा स्थापितवान् / प्रत्यहं तां द्रोणमूर्ति विधिना सम्पूज्य नमस्कृत्याऽम्यर्थयत-हे द्रोणगुरो ! त्वं मां धनुर्विद्या शिक्षय / त्वत्प्रसादादागमिष्यति सकला कलेति संप्रार्थ्य तं कस्यचिदेकस्याऽऽमलकीतरोः सूक्ष्मपत्राणि लक्ष्यीकृत्य बाणेनाविध्यत् / इत्थं प्रत्यहं शिक्षमाणस्य मिल्लस्य षभिर्मासैः सकला कला स्वभ्यस्ताऽभूत्तत्तरोरेकमपि पत्रमविद्धं *-*SHARMA