________________ एकमुक्तावल्या॥११५॥ त्वमिदानीमेवान्तःपुरमशेष दाहय / अथैवं कुमारमादिश्य राजा वीरभगवन्तं वन्दितुमगात् / इतः कुमारेणाचिन्ति किञ्जातं ? सामर्थवर्गः 2 येन राजैवमद्याऽऽदिशतीति सुबुद्ध्या किञ्चिद्विचार्य तत्रान्तःपुरे समागतः स प्रथम सर्वाराज्ञी भवनान्तरे संस्थाप्य तदन्तःपुरमदहत् / चोतः स राजा श्रीवीरजिनमभिवन्ध पप्रच्छ-भगवन् ! मम महाशङ्का समुदपद्यत, सा सत्या मिथ्या वेति बुभुत्सुस्त्वां पृच्छामि यथा-मम राज्ञी शीलवती वर्तते न वा ? वीरेणोक्तं राजन् ! तवैषा शङ्का मिथ्या वर्तते / यतश्चेटकराजस्य सप्तापि पुत्र्यः शीलवत्यः सन्ति / अथैवमाकर्ण्य तत्कालमेव प्रभुं नमस्कृत्य मन्त्रिणः कथितमादेशं निवर्तयितुं राजा त्वरया गृहमाजगाम मार्गे च | कुमारमद्राक्षीत / तमपृच्छकि भोः ! यदादिष्टमन्तःपुरं दग्धव्यमिति तत्कृतन्तु नवा ? कुमारोऽवदत्-हे महाराज ! भवतामादेशकरणे को विलम्बेत ? यथादिष्टं तथाकृतम् / तच्छुत्वा क्रुद्धो राजाऽवदद् धिक्त्वामविचार्य कार्यकारिणम् / अहो ! ईदशान्यायं कृत्वा लज्जसे कथं नेत्याश्चर्य लगति / गच्छ, मम मुखं मा दर्शय, इति वदति नृपे कुमार आह-हे पितः ! पुरा में प्रवज्योत्सुकस्य त्वमकथयः, यदा व्रजेति कथयामि तदा गन्तव्यम् / तदद्य जातं ते वचनं तेन महान्मे हर्षोऽभूत, अतस्त्वां प्रणमामि क्षाम्यो मेऽपराध इत्यानमन पितरं कुमारो भगवदन्तिकं दीक्षार्थी गच्छन् राजानमुच्चैर्जगौ / हे पितः ! तेन दुःखेन स्वात्मनि मा खिद्यस्व मम मातृणां सर्वासां कुशलक्षेममस्ति / तच्छ्रुत्वा मुदितो राजा तं निवर्तयितुमधिकमयतत, परं संसारमसारं जानानः स नैव न्यवर्तत / | तदैव जिनवीरान्तिकमेत्य दीक्षामग्रहीत् / यथावत्संयम परिपाल्य प्रान्ते शुभपरिणामेन त्यक्तदेहोऽनुत्तरविमाने समुत्पेदे / ततध्युत्वा महाविदेहेऽवतीर्य मोक्षमधिगमिष्यति /