SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ SHAISAXXEXKARISHAD माकार्षीदिति धिया स्वदेशं त्यक्त्वा देशान्तरे यत्र कुत्रापि स्थातुं तमादिदेश। सोऽपि सहर्ष पितुरादेर्श शिरसाऽवधार्य तदैव ततो निर्गत्य कियता दिनेन सोईनगरमाययो। तत्र च धनावहश्रेष्ठिनो हट्टाने समुपाविशत्तदा स आपणभवनं समायं तद्रजांसि बहिनिक्षेप्त लग्नः। तदालोक्य तत्रोपविष्टः श्रेणिको व्यमृशत-अहो! किमसौ मातीक्षिप्तो यदेतदतिमहा_ः पीतमृत्तिका:कनकामाः (तेजमतुरी:) प्रक्षिपति / अतस्तमबदत-भोः श्रेष्टिन ! एतानि रजांसि गृहान्तः स्थापय / सत्यवसरे समुपयोक्ष्यन्ते तद्योग्यवचनेन तं योग्यं मत्वा निजालयमनयत् / श्रेणिकरतद्गृहे गोपालकनाम्ना प्रसिद्धो भवन्नतिष्ठत् / कियत्समयानन्तरं स श्रेष्ठी तस्मै निजपुत्री सुनन्दा सुविवाहविधिना ददौ / तया सह भोग भुञ्जानो गोपालक: श्रेष्ठिन आपणीयक्रयविक्रयाद्यायव्ययौ लिखन सुखेन दिनानि गमयबासीत् / अथैकदा तत्र नगरे कश्चन वणझारः सोपस्कराणां भारवाहिकवृषभानां सपादलक्षं लात्वा तत्रागात् / स प्रतिहट्ट तेजमतुरीति भाषाप्रसिद्धा केतुमगमत्परं कुत्रापि तेन सा न लब्धा / तदा स तत्रत्यनृपमुपहारीकृत्य प्रार्थितवान् / राजन् ! मम तेजमतुरीमृण्मयाऽपेक्षा वर्तते, प्रतिहट्टं सा मागिता परं कुत्रापि न प्राप्ता / तच्छ्रुत्वा तदैव तदर्थ नगरे सर्वत्र पटहो वादितो राज्ञा, परं कोऽपि त नाऽस्पृशत्तत्रावसरे गोपालकेन जामात्रा प्रेरितो धनावहश्रेष्ठी पटहं पस्पर्श / तदनु तस्मै वणझारभाषाप्रसिद्धाय स गोपालकः श्रेष्ठिनः समक्षं तामेव तेजमतुरीमदापयत् / तदा श्रेष्ठी जहर्ष व्यचिन्तयच्च-अहो ! पुराहमेतद्रजोधिया प्रक्षेप्तुं लग्नः। तत एवाऽद्य ममेयान लाभो जातोऽतो धन्यो मतिमान मे जामाता येन वारितः पुरा / तदानीं तेन प्रतिनगरं पर्यटता वणझारेण दृष्टपूर्वः श्रेणिकः समुपलक्षितः / अथ तेजमतुरी लात्वा स निजस्थानमागात / कियदिनानन्तरं स राजगृहं कार्यवशादागत्य श्रेणिकं शोधयन्तं राजानमवदत-हे प्रभो ! मया श्रेणिकः कुमारः सोईग्रामे धनावहश्रेष्ठिन आपणे दृष्टः कुशली वर्तते / तन्निशम्य राजा नितरां DESCROBAR
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy