SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ 3338 भो लोकाः ! प्राणिप्राणविघातकरीमृगया भ्रमादपि न कर्तव्या किन्तु जीवरक्षार्थ सदैव यतितव्यम् / मृगयाव्यसनतः पुरा रामकृष्णादयो महान्तोऽपि बहूनि दुःखानि प्रपेदिरे / तत्त्यागतः संयतिराजवत्कियन्तः सन्तः सुखमापुः / एतत्कथोत्तराध्ययनसूत्रीयाष्टादशाध्याये विस्तीर्णा विद्यतेऽत्र तु संक्षिप्तैव प्रसङ्गानिगद्यते // 28 // अथाऽऽखेटव्यसनत्यागे लब्धमुक्तः संयतिनृपस्य १६-कथायथा-संयतिनामा कश्चिद्राजा मृगयाव्यसनी बभूव / स चैकदा मृगयायै वनमगात्तत्र मृग विलोक्य यावद्धाणं मोक्तमैच्छत्तावत्स लक्ष्यो नष्टा कायोत्सर्गध्याने स्थितस्य गर्दभमुनेश्चरणोपान्तेऽतिष्ठत्तावदेव तन्मुक्तोऽपि शरस्तस्याग्रेऽपतत् / तदनु द्रुतं तत्रागतो राजा मुनिमालोक्य शपश्यतीति भीत्या तं ननाम जगाद च-महात्मन् ! ममाऽभयं देहि / अहमन्यो न किन्त्वेतनगरीनृपः संयतिनामाऽस्मि, ममाऽऽश्रयेण बहवो लोका जीवन्ति / अतो मयि प्रसीद अपराधश्च क्षम्यताम् / साधुरगदत-राजन् ! यथा निजप्राणानवसि तथान्यानपि जीवानव / यथा त्वं जिजीविषसि तथैवाज्ये जीवा अपि जीवितुमिच्छन्ति, मर्तुळेऽपि न चेष्टन्ते / अतस्त्वयापि दीनेम्यो जीवेभ्योऽभयं प्रदेयम् / तवाऽभयमित्थमेव स्यादिति साधुभाषणमाकर्ण्य प्रबुद्धो राजा षट्कायजीवजातेभ्योऽभयं प्रदाय तत्पार्थे चारित्रं गृहीत्वा ततो विजहू / मार्गे कश्चिदेकः क्षत्रियः साधुरमिलत्तमपृच्छत्संयतिराजर्षिः / मोः! त्वकोऽसि ? तेनोक्तं किं. त्वमेवात्र शासने साधुरभूरन्यो नास्ति ? एवं माध्मंस्थाः / इह शासने भरतचक्रवर्तिसनत्कुमारशान्तिनाथप्रमुखा अनेके महापुरुषा अभूवन् / तान किन जानासि 1 तद्वाक्यश्रवणेन प्रतिबुद्धः स चारित्रेऽतिदाय नयमानोधर्ममाराधयन् देहं त्यक्त्वा मुक्ति
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy