SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ एकमुक्तावल्या ऽस्मि किन्तु महाविज्ञा महाभाग्यवती चास्मि / परं त्वमेव सकलमहामूढनरनायकः प्रतीतो भवसि, त्वत्तोऽधिकं भाग्यहीनमन्यं कमपि नैव वेमि यतः स्थूलिभद्रप्रतिष्ठामसहमानः स इव स्वमत्रागाः / स मासचतुष्टयं मयाभ्यर्थितोऽपि किञ्चिदपि विकारं न प्रापत् / त्वन्तु तत्कालमेव मदास्यदर्शनमात्रेणैव विषयभोगाभिलाषी श्वावदभूः। किश्च लक्षमूल्यकैतद्रत्नकम्बलावज्ञया मामेवमुपालभसे। परं स्वयं पञ्चमहावतात्मकचिन्तामणिरत्नं गमयन किन्न लज्जसे ? धिक्त्वां यत्संयमीभ्य चातुर्मासमध्ये संमृच्छर्यजीवान विराधयन्, विषयरिरंसामधिश्रयन नेपालं वारद्वयं गत्वा, तल्लात्वावागतोऽसि पुनरीदृशस्त्वं मदनमातङ्गकुम्मभेदनक्षमस्य केसरिणः स्थूलिभद्रस्योपरि द्वेषं वहन्ननं शृगालायसे / अथोपकोशावेश्याया ईदृशैराक्षेपवाक्यैः प्रतिबुद्धः स तदैव स्थूलिभद्रपार्श्वमागत्य स्वापराध क्षामितवान् / गुरुपाचे जातमतिचारं समालोच्य पुनः संयमाराधने तत्परोऽभवत् / भो भो! लोकाः! पश्यत, विदाकुरुत, यद्वेश्यासंगमात्कियती हानिर्भवतीति सिंहगुहावासी संयतोऽपि सञ्जाततत्संगमेच्छुश्चिन्तामणिमिव पञ्चमहाव्रतमत्यजत् / चतुर्मास्यामतिदूरं नेपालमगमपटकायिकजीवजातमहन, सचित्तं वारि तत्कदमादिकं स्पृष्टवान् / लुण्टाकेन विलुण्टितः पुनस्तत्र गत्वा नृपं याचित्वा प्राप्तं रत्नकम्बलं वेश्यायै ददौ / तथापि तयावज्ञातो निर्भसितः स मुनिरपि, अतो वेश्यासङ्गमेच्छापि कदापि न कर्त्तव्या सद्भिस्तहि गमनन्तु सुतरां महानिष्टत्वानिषिद्धमेव / / ___ अथ १५-आखेटकव्यसन-विषयेमृगया ने तज जीव घात जे, सघले जीव दया सदा भजे / मृगया थी दुःख जे लह्यां नवा, हरि रामादि नरेन्द्र जेहवा / / 27 / / M // 111 //
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy