________________ RELEASER.NE+TRICKS गात् / तं धर्मलाभाशिषावर्धयत् राजापि तस्मै सपादलक्षस्य रत्नकम्बलमदात् / तल्लात्वा परावतेमानः स पथक्रमेण चौरपल्लीमागतः। तत्र चौरा यत्र तत्र तिष्ठन्ति परं पिञ्जरस्थ एकः शुकः शाखाश्रितोऽस्ति / धनमादाय यदा तत्र कोऽप्यागच्छति तदा स कीरस्तान सूचयति / तदा ते समेत्य तं पान्यं विलुण्टयन्ति / सोऽपि तत्र यदाऽज्यात्तदा स कोरोऽवक्-भो मोश्चौरा ! धावत धावत कश्चन सपादलक्षीयरत्नकम्बलमादाय गच्छति / तनिशम्य तत्र समेतास्ते तस्य तल्लुण्टन्ति स्म / ततः स विलक्षवदनीमवन पुनस्तत्रागत्य राज्ञे शुभाशिषं ददो। राज्ञोपलक्षितः पुनरागमनकारणश्च पृष्टः सोऽधक्-पुरा दत्तं तन्मार्गेऽपाहरन् / तदनु भूभुजा पुनरपि लक्षमूल्यकं रत्नकम्बलं वंशदण्डान्तनिक्षिप्य दत्तम् / तल्लात्वा तत्रागते तस्मिन् कोर: पूर्वकश्यगदत-मो भोः! धावत 2 शीघ्रमत्रागच्छत, लक्षधनी कोऽपि समेतोऽस्ति / तनिशम्य तत्क्षण समेत्य चौरास्तत्पाः धनं विलोकितवन्तो यदा नैव लब्धं तदा ते तमेवमूचुः / भो ! एतत्कीरवचः कदापि मिथ्या नाभूदद्यैव वितथं भवति / अतस्त्वं सत्यं वद, तत्ते वयं नाऽपहरिष्याम इति श्रुत्वा तेन मुनिना वंशान्तः क्षिप्त तदर्शितम् / तदालोक्य कीरवचसि प्रामाण्यं दधतस्ते लुण्टाकाः पुरादत्तवचनतया नापाहरन् / अथ स ततो निर्गच्छंश्चतुर्मासान्ते तद्गणिकालयमागात / तयोक्तं भो! आनीतं तदा मुनिराख्यदानीतं तयोक्तं तर्हि दीयताम् / अथ स गणिकाय तदर्पयत्साऽपि तल्लात्वा तदैव स्नात्वा तेनाऽशेषाङ्गं प्रोञ्छित्वा पश्यति मुनो तदशुचिस्थाने प्रक्षिप्तवती / तदसमञ्जसं मत्वा तां निजदारामिव कुपितो जगाद-अरे प्रचण्डे रण्डे ! गतभाग्ये ! | त्वयेदं किमकारि ? यदमूल्यं दुष्प्राप्यमेतदशुचिस्थानके तुच्छमिव क्षिप्तम् / मया तु महता कष्टेन चातुर्मासेऽपि वारद्वयं तत्र गत्वा तदानीतम् / नूनमेतत्कर्मणा महामूर्खाणां मूर्धन्या नष्टभाग्या च लक्ष्यसे / तदा सा तमेवमवादीव-भो मुने! नाहं मूर्खा