________________ सूक मथेवगः२ मुक्तावल्या॥१०९॥ हे भ्रातः ! त्वमेव कथय यां निषेवमाणो नरो धनं विनाशयति / लोके च निन्दामामोति कुलमुज्ज्वलं मलिनीकरोति / ईदृशीं सकलदोषधरां गणिकां को मतिमान सेवेत ? यो हि महामूर्खः स एव तामिच्छति / पश्य पश्य यदसौ स्थूलिभद्रसाम्पलिप्सुः सिंहगुहावासी गुरुभ्रातोपकोशावेश्यानिदेशतश्चतुर्मास्यामपि रत्नकम्बलमानिनीपुर्नेपालदेशमतिदूरमगच्छत् // 27 // अथ सिंहगुहावासिसाधूपकोशावेश्ययोः १५-कथानकम्यथा पाटलिपुरनगरे नन्दनामा राजा वर्तते तन्मन्त्री शकडालाख्यो विद्यते / तावकः स्थूलिभद्रनामा पुत्रः कोशानामवेश्यारागी भूत्वा तदालये द्वादशवर्षाणि तस्थिवान सार्धद्वादशकोटिधनमदाच्च तस्यै / अत्रान्तरे केनापि हेतुना वररुचित्राह्मणकूटप्रपञ्चयोगात शकडालमंत्री मृत्युमध्यगच्छत् / तत्रावसरे नन्दराजो मन्त्रिपदप्रदानाय स्वपुरुषेण तं स्थूलिभद्रं वेश्यालयतः समाह्वाययत् / नृपाहूतः स तदैव प्रतस्थे, तदा वेश्या तमधिकं निरुरोध, परं चतुरः स समुचितैमिष्टवाक्यैस्तामनुनीय दृतेन सह राजान्तिकमाययो मार्गे च पितुर्मरणमाकलय्य तन्मनो नितरामसारसंसारतो विरक्तमभूत् / अथ राजान्तिकमागत्य तं नमस्कृत्य कृताञ्जलिय॑जिज्ञपत-स्वामिन् ! किमर्थ मामद्य समाकारितवानसि ? तेनोक्तं त्वं पितुः स्थाने स्थाप्यसे / तेनोक्तं हे महाराज! श्रीमतामादेशः शिरसा धार्यते परमत्र विषये किमप्यालोचनीयमस्ति, तदालोच्य निश्चयं वदिष्यामि ततो नृपादेशतः सोऽशोकबनमागत्य निजहस्तेन केशानवलुच्य रत्नकम्बलस्य रजोहरणं विधाय राजसभामागत्य तारस्वरेण कल्पतरुरिव 'धर्मलाभ' इत्युचचार / ततः संभूतिविजयाचार्यपार्श्वे दीक्षा ललौ। अथ वर्षों गुरवश्चतुःशिष्येषु स्थूलिभद्रमेवमादिशन् / त्वं तत्रैव वेश्यालये चतुरो मासान स्थित्वा संयमाराधनं कुरुष्व / एक शिष्यं वने सिंहगह्वरद्वारे तिष्ठन्नुपवसंश्चतुर्मासं विधेहीत्यादिदिशुः / कूपभारवटे II 109 // ॐ059EOS