________________ k:-10 CARRESTERESEARLSAXECE तच्छुद्धिमानयिष्यति तस्मै पारितोषिकं दास्यामि तदुपकृता च भविष्यामि। इत्थं विलपन्ती निजौदास्यं प्रकटयन्ती गृहान्तः प्राविशतदा पगुमवक्-हे नाथ ! क्षिप्तो गंगाप्रवाहे मया विघ्नोऽद्यप्रभृति निःशको भव / यतस्ते भीतिरासीत्तमद्य जले न्यपात्यम् / ततस्तेन पङगुना दिवानिश विषयसुखं कुर्वाणा सुखेन दिनानि व्यत्येतुं लग्ना। इत्यं तस्याः कियद्भिर्दिनैः पार्श्वस्थे धने व्ययिते द्वाभ्यां विचारि तम्-धनन्तु व्ययितं किमपि नास्ति भोजनादिकृत्यं कथं निष्पत्स्यते ? तेनोक्तं प्रिये ! अहं गातुं जानामि परमहं चरणाभ्यां विहीनोऽस्मि कुत्राप्येकपदमपि गन्तुं न शक्नोमि / तयोक्तं नाथ ! अहं त्वां निजस्कन्धे धृत्वा सर्वत्र पर्यटिष्यामि / तथा निश्चित्य सा पङगुं निजस्कन्धे संस्थाप्य भिक्षायै नगरमागता / पशुश्च मधुरस्वरेण सकलजनश्रोत्रसुखं गायति, तदीयमधुरगीतेन वशीकृतो जनवर्गस्तं परिघृत्य तस्थौ / तदा कियन्तो लोकाः सुकुमालिकायाः सौन्दर्यातिशयेन मुमुहुः / कियन्तो लोकाः पङ्गोमनोहरगानेन मोहमीयुः कियन्त एवं जजल्पुः-अहो ! पङ्गोरीदृशी सुन्दरी स्त्री न युज्यते / इत्थं यथारुचि वदन्तो लोका यद्ददति तेन तो भोजनादिकं कुर्वाते / इत्थमेव प्रत्यहं सा भिक्षते एवं कियन्ति दिनानि तत्र नगरे भिक्षित्वा ग्रामान्तरे मिक्षितुमलगत्तत्र महारूपवतीस्त्रीस्कन्धे स्थित्वा मधुरं गायन्तं पङ्गुमालोक्य सर्वे द्रष्टारः "पांगलो गाय, आंधलो दले ने कूतरूं खाय" इति जनश्रुतिस्मृत्या सहाश्चर्य मनसि मन्यमानास्तं द्रष्टुमेकत्र मिमिलुस्तेषु कियन्तस्तां स्त्रियं तुष्टुवुः / यथा नूनमियं स्त्रीमतल्लिका यंदमुंभरि स्कन्धे निधाय सर्वत्र पर्यटति / सर्वत्र पतिव्रतानाम्ना सा प्रख्यातिमलब्ध / अनुक्रमेण पर्यटन्ती सा पुण्याढ्यराजस्य नगरं समाससाद, तत्रापि तस्याः प्रतिष्ठा सर्वे जगुः / कथाप्रसङ्गात्किय तो राजानं जजल्पु:-हे महाराज ? साम्प्रतमत्र 'नगरे काचिदेका महारूपवती पतिव्रता स्त्री पङ्गुमार निजस्कन्धे धृतवती मिक्षते / पङ्गश्च मनोहरं प्रशस्यं गायतीति श्रुत्वा नृपो मन