________________ मुक्तावली॥१०४॥ भक्षणं प्रत्याचख्युः सर्वे जीवाः सर्वतः प्रियतमा जीविताशामेव वहन्ति मृत्यं नैव वाञ्छन्ति / अवो जीवं हत्वा ये तन्मांसमश्नन्ति तेऽवश्यं नरकं व्रजन्ति तस्मान मांसभक्षणं सर्वथा सर्वैस्त्याज्यमेव / पुनरेतदेव स्पष्टीकर्तुमाह-यथा ये मांसाशिनो भवन्ति ते महान्ति दुःखानि प्राप्नुवन्ति मृत्वा चान्तेजश्यमेव कालिकशूलिकप्रमुखा इस नरकमधिगच्छन्ति / / अथ मांसभक्षणानरकं प्राप्तस्य कालिकशूलिकस्य पुनस्तस्यागतः स्वर्गतस्य सुलसस्य ११-कथा यथा-ाजगृहे नगरे कालिकालिको मांसाशी निवसति मांसधनलोलुपत्वात्प्रत्यहं स पञ्चशतमहिपान निहन्ति / इत्थमाजन्म जीवाभिमतस्तस्य वार्धक्ये मरणसमये महादुःखमुत्पेदे। दुःखार्तस्य तातस्य तदःखाववाताय नानाविधचिकित्सामकारयत्सुलसः परं कृतेषु प्रतीकारेषु यधिकमेव जातम् / तदा सुलसः पितुःखापनोदार्थममयकुमारपार्श्वमागत्य नमस्कृत्य व्यजिज्ञपत-रे स्वामिन् ! मया पितुर्दुःखोपशमाय बाब उपायाः कनाः, परमुपाये सति तापशान्तिन जायते, किन्त्रधिकं वर्धते, तत्र को हेतुरिति कथय ! इति सुलसप्रश्नमाकलय्य कुमारेणाचिन्ति-असौ महापापी नन नरक यास्यति तत ईशी वेदनामनुभव ति / ततस्तमेवमवादीत-हे सुलस ! तब पिता यावजी क्रूरकर्माकरोद् धर्मन्तु स्वमेऽपि नाऽकृत / अतस्तस्य सुखकृत्कृतोप्युपायो नाभूत् खरोट्रादेरिव तस्य क्लिष्टोपचारैरेव शान्तिर्भविष्यति / अतः परं भूमौ सूचीमुखाऽऽयसास्तरणे तं स्वापय यदा तस्य पिपासा भवेचदा स्वरितमत्युष्णं वारि पायय शीतलं सुस्वादु जलं मा देहि / तदप सुरभिशीतलं तैलं मा मर्दय, किन्तु विष्ठामेव विलेपय, तदा स सुखी भविष्यति नान्यथेति निश्चितं जानीहि / अथ कुमारकथनानुसारतस्तथैव कृते तस्य शान्तिरभूत्तदा तेनोक्तम्-३ पुत्र ! IMR104 //