________________ सो येन केनाप्युपायेन प्रतिबोधनीय इति विमृश्य स मौनमाश्रित्य तस्थौ। अथ सभा विसृज्य नपोऽन्तापुरमागाचान्येऽपि श्रीमन्तो जनाः स्वस्थानमीयुः / अथ रजन्यामभयकुमारः प्रथमं मांससौलभ्यवादिनो महर्धिकस्य गृहमगात् / प्रधानं गृहागतं वीक्ष्य यथोचितं सत्कृत्य कृताञ्जलिः सोऽवदत्-स्वामिन् ! अद्य मे सौभाग्यमुद्घटितं यत्त्वां गृहागतं वीक्षे / प्रभो ! कार्यमादिश तदा कुमा रेणोक्तम-सम्पति नृपशरीरेऽकस्मान्महान् रोग उत्पेदे वैद्यः कथयति रोगो महानस्ति / अतो यदाऽसौ राजा सेटकपोडशांशपरिमितं सपाद एवं मांस भुञ्जीत, तदाशोग्यं लब्धुं शक्यते / अत आगतोऽस्मि राजाग्रे वयोक्त मांससौलभ्यमिति तत्वावन्मितं'हदयमांसं देहि / यत्सत्वरं राजानं नीरोग कुर्यो तदाकये राजमान्योऽपि सोऽवदत्-हे नाथ! एतत्त दृष्करमस्ति. अहं धनं ददामि मांस त्वन्यत एव लात्वा कार्य साधय यतस्त्वं मतिमतामग्रेसरोऽसि मां मुश्च / तदा पुनरुक्तमभयकुमारेण भो। राज्ञस्तु मांसापेक्षा वर्तते तदीयताम् / तदा पुनः सोऽवक्-एवं मा कुरु मत्तो लक्षमितं द्रविणं गृहाण / ततोऽन्ते लक्षद्वयमुद्रां लात्वाकुमारोऽपरगृहमागत्य तथैव तमप्यवादीत तेनापि कुमारमधिकमनुनीय मांसमदत्वा तावदेव धनमदायि / इत्थं सकलराजमान्यश्रीमद्गृहाणि गत्वा मांसव्याजादनेकलक्षमुद्रां गृहीत्वा निशान्ते गृहमाययौ प्रभाते च कुमारो राजसभामागतः / तदा सर्वे ते समागता राजानमनामयमच्छन् / नृपस्तदा सविस्मयः कुमारमुखमालोकते तत्रावसरे कुमारोऽवदद् महाराज ! गतेऽहनि सदस्येते सर्वे मांससौलस्यं जगदु / अतोऽहं रात्रौ सर्वेषां गृहाणि गत्वा मांस याचितवान्, केनापि तन्न दत्तं सर्वे यथेष्टधनवितरणमेव चकुः / राजन् ! यदि मांसं सुलमं मवेत्तहि भवदर्थ सेटकस्य पोशांशपरिमिते सपादे हृदयमांसे मार्मितेऽपि लक्षद्विलक्षधनानि कथमेतेऽदुः। तदाकर्णवन्तस्ते सर्वे पाध्वमतमूर्धान एष तस्युः केऽप्यमिमुखं द्रष्टुं न शेकुः / तदेव सर्वे मांस RRENERRORISEXERY