SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ सपरिवारो राजा तं वन्दितुं तत्राऽऽययौ / सर्वे लोका बन्दनानन्तरं यथायोग्यस्थाने समुपाविशन् / तदा गुरुरवसरोचित व्याख्यानं प्रारेमे तथाहि-भो लोका ! सर्वे पदार्था विनश्वरा दृश्यन्ते / परमविनाशी सर्वत्र सहायको धर्म एवाऽस्ति / स सवैः सदैवाऽऽराधनीयो यस्तं प्राप्यापि न करोति स एवातिमढः / यत: अपारे संसारे कथमपि समासाद्य नृभवं, न धर्म यः कुर्याद विषयसुखतष्णातरलितः। ब्रुडन् पारावारे प्रवरमपहाय प्रवहणं, स मुख्यो मूर्खाणामुपलमुपलब्धं प्रयतते // 1 // इह दुस्तरे संसारे महता कष्टेन मानुष्यं प्राप्य यो धर्म न कुरुते तस्याऽलम्पमिदं मानुष्यं मुधैव याति / अथ देशनान्ते पुरन्दरश्रेष्ठी गुरुमपृच्छत्-हे स्वामिन् ! पुण्यसारं वरीतुं रत्नवत्या इयान विमर्शः कथमुदपद्यत ? गुरुरवदत्-श्रूयताम, एष पुण्यसारः पूर्वजन्मनि संयम ललौ / परमसौ कायगुप्ति सम्यक्तया परिपालयितुं न शशाक / केवलं सप्तप्रवचनमातृ रेव सुखेन पर्यपालयत् / तेनात्र भवे सप्तदारान सुखेनाऽलभत / अष्टमभार्याप्राप्तौ चास्य विलम्बो जातस्तत्र कारणमष्टमी कायगुप्तिमवगच्छ / गुरु भाषितमेतदाकर्ण्य समुत्पन्नवैराग्यतया तदैव पुरन्दरः श्रेष्ठी दीक्षामग्रहीत् / शुद्ध साधुधर्ममाचर्य प्रान्ते देवगतिमाप / तदनु पुण्यसारो नगरश्रेष्ठी बभूव / ततो धर्ममर्जयन न्यायतो धनं वर्धयन् वाक्ये पुत्रं निजस्थाने संस्थाप्य मार्याभिरष्टाभिः सह संयमं परिपाल्य देवगतिमगच्छत् / मो मव्याः ! एषा कथाऽस्मान यच्छिशयति तदाकर्ण्यताम्-पूर्व यदासौ धूतव्यसनी बभूव 8 तदा नृपस्थापितं लक्षमूल्याभरणं चोरयित्वा ते हारितम् / ततः पित्रा निष्कासितः कुत्रापि तरुकोटरे तस्थिवान् दैवात्परिणीतामिन
SR No.600398
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorBhupendrasuri, Gulabvijay Upadhyay
PublisherBhupendrasuri Jain Sahitya Samiti
Publication Year1940
Total Pages346
LanguageSanskrit
ClassificationManuscript
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy