________________ अपः 2 सूक्तमुक्तावली॥१०२॥ किमर्थ म्रियते ? तदेनं पृच्छ निवारय च / अथ राजादिष्टः पुण्यसारस्तत्पामागत्य तमवक / हे मित्र ! तव किमभूयेन यौवन एव मुमूर्षसि ? तत्कारणं वद येन तदुपायं कुर्याम् / असति प्रतीकारेऽहमपि त्वया सहैव मरिष्यामि क्षणमपि ते वियोगो मया नैव सह्यते / तदा चिरं निःश्वस्य सोऽवक्-हे मित्र ! मम यद्भूतं तस्य प्रकाशेनाऽपि किं स्यात् 1 अत एतद्विषये किमपि मा पृच्छ। पुण्यसारेण पुनरुक्तं भो ! यदि मां मित्रं जानासि तर्हि रहस्यगोपनं सर्वथा नैव युज्यते यदुक्तम्प्रीति तहां पड़दो नहीं, पडदो तहां शी प्रीत / प्रीति विचे पड़दो करे, वही बड़ी विपरीत // 13 // इत्याकर्ण्य तेनोक्तं-हे मित्र ! त्वं मे महामित्रमसि / त्वं महताग्रहेण पृच्छसि तेन त्वां निजेदृशदुःखस्य कारणं वच्मि, शनैः शनैः कर्णे न्यगदत-कुड्ये यदलेखीस्तत्स्मयते न वा ? तनिशम्य पुण्यसारोऽप्यवदत-सत्यमेव मयाऽलेखि / तत्रावसरे सर्वमादितो यथा जातं तथा सा जगाद / सर्व श्रुत्वा पुण्यसारस्तदैव स्वगृहाद् स्त्रीपरिधानीयवस्खमानाय्य तस्यै समर्पयत् / मूलतचं विदन्तः सर्वे नृपादय आश्चर्यमापुः / तत्रावसरे रत्नसारः श्रेष्ठी नृपं व्यजिज्ञपत्स्वामिन् ! मम पुत्र्याः का गतिः 1 नृपोऽवक-सापि पुण्यसारस्य भार्याभूत् / तदनु तामपि सत्कृत्य महता महेन गृहमानयत् / तदा तन्मनसि पूर्वजातकलहद्वेषो लेशतोऽपि नासीत् / तस्या अपि पुरातनकलहकालीनप्रतिज्ञा विस्मृतिरेवाभूत् / ततस्तयोरपूर्व एवानुरागः परस्परमुदैत् / तदनु गुणसुन्दरीभवृमिलनवार्तामाकर्ण्य ता अपि षड्भगिन्यस्तत्राऽऽययुः / ततस्ताभिरष्टाभिः पत्नीभिः | सह देव इव स सुखमभुक्त / तत्र नगरे तदभितोऽपि सर्वत्र पुण्यसारस्य कीर्तिः प्रससार / तत्रावसरे तन्नगरोद्याने चतुर्बानी शीलन्धराचार्य आगात् / वनपालेन तस्य वर्धापनं नृपाय निवेदितम् / राजा वनपालाय यथेष्टं धनं ददे / तदनु ACCORRECTOR:-RSS // 1.23